Yuddha Kanda Sarga 101 – युद्धकाण्ड एकोत्तरशततमः सर्गः (१०१)


॥ लक्ष्मणशक्तिक्षेपः ॥

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २ ॥

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥

मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥

तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना ।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ ६ ॥

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥

तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥

तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।
आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ।
रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥

ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।
लक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥ १३ ॥

तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।
जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ॥ १५ ॥

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥ १६ ॥

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् ।
जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् ।
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥

ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव ।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।
अथोदतिष्ठत्सन्नादो वानराणां तदा रणे ॥ २० ॥

सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥

ततः सम्भाविततरां कालेनापि दुरासदाम् ।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥

सा वेगिता बलवता रावणेन दुरासदा ।
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ २३ ॥

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥

कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।
स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥

मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः ।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥

रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।
मुक्ताऽऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि ।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ॥

ततो रावणवेगेन सुदूरमवगाढया ।
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥

स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।
बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥

न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः ।
चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ॥ ३९ ॥

सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ॥ ४० ॥

लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।
तामपि प्रहितां शक्तिं रावणेन बलीयसा ॥ ४१ ॥

यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४२ ॥

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ॥ ४३ ॥

बभञ्ज समरे क्रुद्धो बलवान्विचकर्ष च ।
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ॥ ४४ ॥

शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।
अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् ॥ ४५ ॥

अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ।
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ ४६ ॥

पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ।
पापात्माऽयं दशग्रीवो वध्यतां पापनिश्चयः ॥ ४७ ॥

काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।
अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ॥ ४८ ॥

अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।
राज्यनाशं वने वासं दण्डके परिधावनम् ॥ ४९ ॥

वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ॥ ५० ॥

अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।
यदर्थं वानरं सैन्यं समानीतमिदं मया ॥ ५१ ॥

सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥ ५२ ॥

सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ॥ ५३ ॥

दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ॥ ५४ ॥

आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।
अद्य रामस्य रामत्वं पश्यन्तु मम सम्युगे ॥ ५५ ॥

त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ॥ ५६ ॥

सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५७ ॥

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।
आजघान दशग्रीवं रणे रामः समाहितः ॥ ५८ ॥

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।
अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ ५९ ॥

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।
शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ६० ॥

ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।
अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६१ ॥

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ ६२ ॥

स कीर्यमाणः शरजालवृष्टिभिः
महात्मना दीप्तधनुष्मताऽर्दितः ।
भयात्प्रदुद्राव समेत्य रावणो
यथाऽनिलेनाभिहतो बलाहकः ॥ ६३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥

युद्धकाण्ड द्व्युत्तरशततमः सर्गः (१०२) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed