Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीव्यास उवाच –
श्रीमद्गुरो निखिलवेदशिरोनिगूढ
ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् ।
श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ
स्वात्मावबोधक परेश नमो नमस्ते ॥ १ ॥
सान्निध्यमात्रमुपलभ्यसमस्तमेत-
दाभाति यस्य जगदत्र चराचरं च ।
चिन्मात्रतां निज कराङ्गुलि मुद्रया य-
स्स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २ ॥
जीवेश्वराद्यखिलमत्र विकारजातं
जातं यतस्स्थितमनन्तसुखे च यस्मिन् ।
येनोपसंहृतमखण्डचिदेकशक्त्या
स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३ ॥
यस्स्वाम्शजीवसुख दुःख फलोपभोग-
हेतोर्वपूम्षि विविधानि च भौतिकानि ।
निर्माय तत्र विशता करणैस्सहान्ते
जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४ ॥
हृत्पुण्डरीकगतचिन्मणिमात्मरूपं
यस्मिन् समर्पयति योगबलेन विद्वान् ।
यः पूर्णबोधसुखलक्षण एकरूप
आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५ ॥
यन्मायया हरिहर द्रुहिणा बभूवु-
स्सृष्ट्यादिकारिण इमे जगतामधीशाः ।
यद्विद्ययैव परयात्रहि वश्यमाया
स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६ ॥
स्त्रीपुंनपुंसकसमाह्वय लिङ्गहीनो-
ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव ।
सत्यप्रबोध सुखरूपतया त्वरूप-
वत्त्वे न च त्रिजगतीश नमो नमस्ते ॥ ७ ॥
जीवत्रयं भ्रमति वै यदविद्ययैव
संसारचक्र इह दुस्तरदुःख हेतौ ।
यद्विद्ययैव निजबोधरतं स्ववश्या
विद्यं च तद्भवति साम्ब नमो नमस्ते ॥ ७ ॥
इति श्रीगुरुज्ञानवासिष्ठज्ञानकाण्डस्य द्वितीयपादे प्रथमाध्याये श्रीव्यासकृत दक्षिणामूर्त्यष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.