Tripura Sundari Pratah Smaranam – श्री त्रिपुरसुन्दरी प्रातः स्मरणम्


प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।
श्रीमत्त्रिपुरसुन्दर्या वन्दिताया हरादिभिः ॥ १ ॥

प्रातस्त्रिपुरसुन्दर्याः व्रजामि चरणाम्बुजम् ।
हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यया ॥ २ ॥

प्रातस्त्रिपुरसुन्दर्याः नमामि पदपङ्कजम् ।
यत्पाद्यमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३ ॥

प्रातः पाशाङ्कुश शर चापहस्तां नमाम्यहम् ।
उद्यदादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥ ४ ॥

प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ।
तस्यास्त्रिपुरसुन्दर्याः यत्प्रसादान्निवर्तते ॥ ५ ॥

यः श्लोक पञ्चकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै दद्यादात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥ ६ ॥

त्रैलोक्यचैतन्यमये परेशि
श्रीनाथनित्ये भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥ ७ ॥

संसारयात्रामनुवर्तमानं
त्वदाज्ञाया श्रीत्रिपुरे परेशि ।
स्पर्धा तिरस्कार कलिप्रमाद
भयानि मामभिभवन्तु मातः ॥ ८ ॥

जानामि धर्मं न च मे प्रवृत्तिः
जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेशि हृदिस्थयाऽहं
यथा नियुक्तोऽस्मि तथा करोमि ॥ ९ ॥

इति श्री त्रिपुरसुन्दरी प्रातः स्मरणम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed