Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे ।
नमो भक्तिप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १ ॥
नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे ।
सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २ ॥
महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये ।
वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ३ ॥
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ४ ॥
विचित्रवसने देवि भवदुःखविनाशिनि ।
कुचभारनते देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ५ ॥
साधकाभीष्टदे देवि अन्नदानरतेऽनघे ।
विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६ ॥
षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।
ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते ॥ ७ ॥
देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।
सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८ ॥
पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९ ॥
इति त्रैलोक्यमङ्गलं नाम श्री लक्ष्मी स्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.