Sundarakanda Sarga (Chapter) 63 – सुन्दरकाण्ड त्रिषष्टितमः सर्गः (६३)


॥ सुग्रीवहर्षः ॥

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम ।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ २ ॥

[* अधिकपाठः –
किं संभ्रमाद्धितं कृत्स्नं ब्रूहि यद्वक्तुमर्हसि ।
कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥
*]

स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥ ३ ॥

नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ॥ ४ ॥

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।
मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च ॥ ५ ॥

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथाऽपरे ।
निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥ ६ ॥

इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः ।
वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः ॥ ७ ॥

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभ ।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ॥ ८ ॥

पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ॥ ९ ॥

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ॥ १० ॥

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥ ११ ॥

किमयं वानरो राजन्वनपः प्रत्युपस्थितः ।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥ १२ ॥

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १३ ॥

आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः ।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ॥ १४ ॥

विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ॥ १५ ॥

आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ॥ १६ ॥

वनं यदाऽभिपन्नास्ते साधितं कर्म वानरैः ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ १७ ॥

न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः ।
कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुङ्गवे ॥ १८ ॥

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।
जाम्बवान्यत्र नेता स्यादङ्गदश्च महाबलः ॥ १९ ॥

हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ॥ २० ॥

वारयन्तश्च सहितास्तथा जानुभिराहताः ।
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ॥ २१ ॥

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥ २२ ॥

अभिगम्य तथा सर्वे पिबन्ति मधु वानराः ।
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ॥ २३ ॥

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ॥ २४ ॥

श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ॥ २५ ॥

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ॥ २६ ॥

प्रीतोऽस्मि सोहं यद्भुक्तं वनं तैः कृतकर्मभिः ।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥ २७ ॥

इच्छामि शीघ्रं हनुमत्प्रधानान्
शाखामृगांस्तान्मृगराजदर्पान् ।
द्रष्टुं कृतार्थान्सह राघवाभ्यां
श्रोतुं च सीताधिगमे प्रयत्नम् ॥ २८ ॥

प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ
दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा
बाह्वोरासन्नां सोऽतिमात्रं ननन्द ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥

सुन्दरकाण्ड चतुःषष्टितमः सर्गः (६४)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed