Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ जम्बुमालिवधः ॥
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।
महान्विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥
[* अधिकपाठः –
दग्धत्रिकूटप्रतिमो महाजलदसन्निभः ।
महाभुजशिरःस्कन्धो महादंष्ट्रो महाननः ।
महाजवो महोत्साहो महासत्त्वोरुविक्रमः ।
आजगामातिवेगेन सायुधः स महारथः ।
*]
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् ।
विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥
तस्य विस्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ ४ ॥
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान्वेगसम्पन्नो जहर्ष च ननाद च ॥ ५ ॥
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् ।
जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।
यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ १० ॥
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून्बाणान् जम्बुमाली महाबलः ॥ १३ ॥
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।
शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥ [उरस]
स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६ ॥
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७ ॥
स हतस्तरसा तेन जम्बुमाली महाबलः ।
पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ १८ ॥
जम्बुमालिं च निहतं किंकरांश्च महाबलान् ।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ १९ ॥
स रोषसंवर्तितताम्रलोचनः
प्रहस्तपुत्रे निहते महाबले ।
अमात्यपुत्रानतिवीर्यविक्रमा-
-न्समादिदेशाशु निशाचरेश्वरः ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
सुन्दरकाण्ड पञ्चचत्वारिंशः सर्गः (४५)>>
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.