Sri Vittala Stavaraja – विठ्ठल स्तवराजः


ओं अस्य श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिः
अतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता त्रिमूर्त्यात्मका इति बीजम् सृष्टिसंरक्षणार्थेति शक्तिः वरदाभयहस्तेति कीलकम् मम सर्वाभीष्टफलसिद्ध्यर्थे जपे विनियोगः ।

अथ न्यासः-
ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः ।
ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः ।
ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः ।
ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः ।
ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः ।
ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –
श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् ।
त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १ ॥

नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसम्युतम् ।
ऊर्णतन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ २ ॥

गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दरम् ।
ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३ ॥

रुक्मणीशक्तिहस्तेन क्रीडन्तं चललोचनम् ।
आज्ञाब्रह्म बिलान्तस्थ ज्योतिर्मयस्वरूपकम् ॥ ४ ॥

सहस्रदलपद्मस्थं सर्वाभरणभूषितम् ।
सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५ ॥

समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् ।
स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६ ॥

पीतवस्त्रपरीधानं तुलसीवनमालिनम् ।
शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७ ॥

ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् ।
रत्नसिंहासनं देवं सुवर्णमकुटोज्ज्वलम् ॥ ८ ॥

रत्नकिङ्किणिकेयूरं रत्नमण्टपशोभितम् ।
पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९ ॥

देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् ।
ओं नमश्शान्तिरूपाय सर्वलोकैकसिद्धये ॥ १० ॥

सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे ।
सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११ ॥

परमन्त्रप्रणाशाय परयन्त्रनिवारिणे ।
परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२ ॥

परात्परस्वरूपाय परमात्मस्वरूपिणे ।
परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३ ॥

विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे ।
विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४ ॥

परमहंसस्वरूपाय सोऽहं हंसस्वरूपिणे ।
हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५ ॥

अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे ।
आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६ ॥

क्षराक्षरस्वरूपाय अक्षरायस्वरूपिणे ।
ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७ ॥

बिन्दुनादकलातीत भिन्नदेहसमप्रभ ।
अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८ ॥

भीमातीरनिवासाय पण्डरीपुरवासिने ।
पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९ ॥

सर्वयोगार्थतत्त्वज्ञ सर्वभूतहितेरत ।
सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २० ॥

य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् ।
सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१ ॥

सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् ।
आवर्तनसहस्रस्तु लभते वाञ्छितं फलम् ॥ २२ ॥

य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् ।
स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३ ॥

सर्वभूतप्रशमनं सर्वदुःखनिवारणम् ।
सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४ ॥

अलक्ष्मीनाशनं चैव सुलक्ष्मीसुखदायकम् ।
त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५ ॥

सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे ।
शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्बिषात् ॥ २६ ॥

राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च ।
साधकः स्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७ ॥

इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे नारदवसिष्ठसंवादे श्री विठ्ठलस्तवराजस्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed