Sri Vittala Stavaraja – श्री विठ्ठल स्तवराजः



अस्य श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिः अतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता त्रिमूर्त्यात्मका इति बीजं सृष्टिसंरक्षणार्थेति शक्तिः वरदाभयहस्तेति कीलकं मम सर्वाभीष्टफलसिद्ध्यर्थे जपे विनियोगः ।

अथ न्यासः-
ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः ।
ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः ।
ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः ।
ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः ।
ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः ।
ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –
श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् ।
त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १ ॥

नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसम्युतम् ।
ऊर्णतन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ २ ॥

गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दिरम् ।
ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ ३ ॥

रुक्मणीशक्तिहस्तेन क्रीडन्तं चललोचनम् ।
आज्ञाब्रह्मबिलान्तःस्थ ज्योतिर्मयस्वरूपकम् ॥ ४ ॥

सहस्रदलपद्मस्थं सर्वाभरणभूषितम् ।
सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ ५ ॥

समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् ।
स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ ६ ॥

पीतवस्त्रपरीधानं तुलसीवनमालिनम् ।
शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ ७ ॥

ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् ।
रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ ८ ॥

रत्नकिङ्किणिकेयूरं रत्नमण्टपशोभितम् ।
पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ ९ ॥

देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् ।
ओं नमः शान्तिरूपाय सर्वलोकैकसिद्धये ॥ १० ॥

सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे ।
सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ ११ ॥

परमन्त्रप्रणाशाय परयन्त्रनिवारिणे ।
परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ १२ ॥

परात्परस्वरूपाय परमात्मस्वरूपिणे ।
परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ १३ ॥

विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे ।
विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ १४ ॥

परमहंसस्वरूपाय सोऽहं हंसस्वरूपिणे ।
हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ १५ ॥

अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे ।
आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ १६ ॥

क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे ।
ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ १७ ॥

बिन्दुनादकलातीतभिन्नदेहसमप्रभ ।
अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ १८ ॥

भीमातीरनिवासाय पण्डरीपुरवासिने ।
पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ १९ ॥

सर्वयोगार्थतत्त्वज्ञ सर्वभूतहितेरत ।
सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ २० ॥

य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् ।
सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ २१ ॥

सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् ।
आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ २२ ॥

य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् ।
स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ २३ ॥

सर्वभूतप्रशमनं सर्वदुःखनिवारणम् ।
सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ २४ ॥

अलक्ष्मीनाशनं चैव सुलक्ष्मीसुखदायकम् ।
त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ २५ ॥

सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे ।
शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्बिषात् ॥ २६ ॥

राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च ।
साधकः स्तम्भने चैव सर्वत्र विजयी भवेत् ॥ २७ ॥

इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे नारदवसिष्ठसंवादे श्री विठ्ठल स्तवराजः ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed