Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीमत्सूत्रवतीनाथाय नमः ।
ओं श्रीविष्वक्सेनाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं श्रीवासुदेवसेनान्याय नमः ।
ओं श्रीशहस्तावलम्बदाय नमः ।
ओं सर्वारम्भेषुसम्पूज्याय नमः ।
ओं गजास्यादिपरीवृताय नमः ।
ओं सर्वदासर्वकार्येषु सर्वविघ्ननिवर्तकाय नमः ।
ओं धीरोदात्ताय नमः । ९
ओं शुचये नमः ।
ओं दक्षाय नमः ।
ओं माधवाज्ञा प्रवर्तकाय नमः ।
ओं हरिसङ्कल्पतो विश्वसृष्टिस्थितिलयादिकृते नमः ।
ओं तर्जनीमुद्रया विश्वनियन्त्रे नमः ।
ओं नियतात्मवते नमः ।
ओं विष्णुप्रतिनिधये नमः ।
ओं श्रीमते नमः ।
ओं विष्णुमार्गानुगाय नमः । १८
ओं सुधिये नमः ।
ओं शङ्खिने नमः ।
ओं चक्रिणे नमः ।
ओं गदिने नमः ।
ओं शार्ङ्गिणे नमः ।
ओं नानाप्रहरणायुधाय नमः ।
ओं सुरसेनानन्दकारिणे नमः ।
ओं दैत्यसेनभयङ्कराय नमः ।
ओं अभियात्रे नमः । २७
ओं प्रहर्त्रे नमः ।
ओं सेनानयविशारदाय नमः ।
ओं भूतप्रेतपिशाचादि सर्वशत्रुनिवारकाय नमः ।
ओं शौरिवीरकथालापिने नमः ।
ओं यज्ञविघ्नकरान्तकाय नमः ।
ओं कटाक्षमात्रविज्ञातविष्णुचित्ताय नमः ।
ओं चतुर्गतये नमः ।
ओं सर्वलोकहितकाङ्क्षिणे नमः ।
ओं सर्वलोकाभयप्रदाय नमः । ३६
ओं आजानुबाहवे नमः ।
ओं सुशिरसे नमः ।
ओं सुललाटाय नमः ।
ओं सुनासिकाय नमः ।
ओं पीनवक्षसे नमः ।
ओं विशालाक्षाय नमः ।
ओं मेघगम्भीरनिस्वनाय नमः ।
ओं सिंहमध्याय नमः ।
ओं सिंहगतये नमः । ४५
ओं सिंहाक्षाय नमः ।
ओं सिंहविक्रमाय नमः ।
ओं किरीटकर्णिकामुक्ताहार केयूरभूषिताय नमः ।
ओं अङ्गुलीमुद्रिकाभ्राजदङ्गुलये नमः ।
ओं स्मरसुन्दराय नमः ।
ओं यज्ञोपवीतिने नमः ।
ओं सर्वोत्तरोत्तरीयाय नमः ।
ओं सुशोभनाय नमः ।
ओं पीताम्बरधराय नमः । ५४
ओं स्रग्विणे नमः ।
ओं दिव्यगन्धानुलेपनाय नमः ।
ओं रम्योर्ध्वपुण्ड्रतिलकाय नमः ।
ओं दयाञ्चितदृगञ्चलाय नमः ।
ओं अस्त्रविद्यास्फुरन्मूर्तये नमः ।
ओं रशनाशोभिमध्यमाय नमः ।
ओं कटिबन्धत्सरुन्यस्तखड्गाय नमः ।
ओं हरिनिषेविताय नमः ।
ओं रत्नमञ्जुलमञ्जीरशिञ्जानपदपङ्कजाय नमः । ६३
ओं मन्त्रगोप्त्रे नमः ।
ओं अतिगम्भीराय नमः ।
ओं दीर्घदर्शिने नमः ।
ओं प्रतापवते नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वशक्तये नमः ।
ओं निखिलोपायकोविदाय नमः ।
ओं अतीन्द्राय नमः ।
ओं अप्रमत्ताय नमः । ७२
ओं वेत्रदण्डधराय नमः ।
ओं प्रभवे नमः ।
ओं समयज्ञाय नमः ।
ओं शुभाचाराय नमः ।
ओं सुमनसे नमः ।
ओं सुमनसः प्रियाय नमः ।
ओं मन्दस्मिताञ्चितमुखाय नमः ।
ओं श्रीभूनीलाप्रियङ्कराय नमः ।
ओं अनन्तगरुडादीनां प्रियकृते नमः । ८१
ओं प्रियभूषणाय नमः ।
ओं विष्णुकिङ्करवर्गस्य तत्तत् कार्योपदेशकाय नमः ।
ओं लक्ष्मीनाथपदाम्भोजषट्पदाय नमः ।
ओं षट्पदप्रियाय नमः ।
ओं श्रीदेव्यनुग्रहप्राप्त द्वयमन्त्राय नमः ।
ओं कृतान्तविदे नमः ।
ओं विष्णुसेवितदिव्यस्रक् अम्बरादिनिषेवित्रे नमः ।
ओं श्रीशप्रियकराय नमः ।
ओं श्रीशभुक्तशेषैकभोजनाय नमः । ९०
ओं सौम्यमूर्तये नमः ।
ओं प्रसन्नात्मने नमः ।
ओं करुणावरुणालयाय नमः ।
ओं गुरुपङ्क्तिप्रधानाय नमः ।
ओं श्रीशठकोपमुनेर्गुरवे नमः ।
ओं मन्त्ररत्नानुसन्धात्रे नमः ।
ओं न्यासमार्गप्रवर्तकाय नमः ।
ओं वैकुण्ठसूरि परिषन्निर्वाहकाय नमः ।
ओं उदारधिये नमः । ९९
ओं प्रसन्नजनसंसेव्याय नमः ।
ओं प्रसन्नमुखपङ्कजाय नमः ।
ओं साधुलोकपरित्राते नमः ।
ओं दुष्टशिक्षणतत्पराय नमः ।
ओं श्रीमन्नारायणपद शरणत्वप्रबोधकाय नमः ।
ओं श्रीवैभवख्यापयित्रे नमः ।
ओं स्ववशंवद माधवाय नमः ।
ओं विष्णुना परमं साम्यमापन्नाय नमः ।
ओं देशिकोत्तमाय नमः । १०८
ओं श्रीमते विष्वक्सेनाय नमः । १०९
इति श्री विष्वक्सेनाष्टोत्तरशतनामावली ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
2 thoughts on “Sri Vishwaksena Ashtottara Shatanamavali – श्री विष्वक्सेनाष्टोत्तरशतनामावली”
Leave a Reply
You must be logged in to post a comment.


very nice how can i get vishweksenar ashtothram pdf
Please use stotranidhi mobile app for offline use.