Sri Venkateswara Saranagathi Stotram (Saptarshi Kritam) – श्री वेङ्कटेश्वर शरणागति स्तोत्रम् (सप्तर्षि कृतम्)

शेषाचलासमासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १ ॥

कलिसन्तारकं पुण्यं स्तोत्रमेतत् जपेन्नरः ।
सप्तर्षि वा प्रसादेन विष्णुः तस्मै प्रसीदती ॥ २ ॥

कश्यप उवाच –
कारि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजेत् ॥ ३ ॥

अत्री उवाच –
अकारादि क्षकारान्त वर्णैः यः प्रतिपाद्यते ।
कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापती ॥ ४ ॥

भरद्वाज उवाच –
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायक ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५ ॥

विश्वामित्र उवाच –
विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६ ॥

गौतम उवाच –
गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमास्यास्त वेङ्कटाधि शिरोमणिः ॥ ७ ॥

जमदग्निरुवाच –
जगत्कर्ता जगत्भर्ता जगन्नाथो जगन्मया ।
जमदग्निः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८ ॥

वसिष्ठ उवाच –
भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् ।
तत्र हैवाहमस्मीति वेङ्कटेशं भजेत् सदा ॥ ९ ॥

सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन् नरः ।
सोऽभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत् ॥ १० ॥

इति श्रीवेङ्कटेशशरणागतिस्तोत्रम् सम्पूर्णम् ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Download Stotra Nidhi mobile app