Sri Venkateshwara Navaratna Malika Stuti – श्री वेङ्कटेश्वर नवरत्नमालिका स्तुतिः



श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः
भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः ।
शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः
पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १ ॥

यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति
भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः ।
पद्मावासामुखाम्भोरुहमदमधुविद्विभ्रमोन्निद्रचेताः
शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २ ॥

वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं
नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् ।
राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं
शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३ ॥

पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं
पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् ।
व्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां
ध्येयो योगीन्द्रचेतस्सरसिजनियतानन्ददीक्षाविहारः ॥ ४ ॥

आद्यं तेजोविशेषैरुपगतदशदिङ्मण्डलाभ्यन्तरालं
सूक्ष्मं सूक्ष्मातिरिक्तं भवभयहरणं दिव्यभव्यस्वरूपम् ।
लक्ष्मीकान्तं खगेन्द्रध्वजमघशमनं कामितार्थैकहेतुं
वन्दे गोविन्दमिन्दीवरनवजलदश्यामलं चारुहासम् ॥ ५ ॥

राकाचन्द्रोपमास्यं ललितकुवलयश्याममम्भोजनेत्रं
ध्यायाम्याजानुबाहुं हलनलिनगदाशार्ङ्गरेखाञ्चिताङ्घ्रिम् ।
कारुण्याञ्चत्कटाक्षं कलशजलधिजापीनवक्षोजकोशा-
श्लेषावाताङ्गरागोच्छ्रयललितनवाङ्कोरुवक्षस्स्थलाढ्यम् ॥ ६ ॥

श्रीमन्सम्पूर्णशीतद्युतिहसनमुखं रम्यबिम्बाधरोष्ठं
ग्रीवाप्रालम्बिवक्षस्स्थलसततनटद्वैजयन्तीविलासम् ।
आदर्शौपम्यगण्डप्रतिफलितलसत्कुण्डलश्रोत्रयुग्मं
स्तौमि त्वां द्योतमानोत्तममणिरुचिरानल्पकोटीरकान्तम् ॥ ७ ॥

सप्रेमौत्सुक्यलक्ष्मीदरहसितमुखाम्भोरुहामोदलुभ्य-
-न्मत्तद्वैरेफविक्रीडितनिजहृदयो देवदेवो मुकुन्दः ।
स्वस्ति श्रीवत्सवक्षाः श्रितजनशुभदः शाश्वतं मे विदध्यात्
न्यस्तप्रत्यग्रकस्तूर्यनुपमतिलकप्रोल्लसत्फालभागः ॥ ८ ॥

श्रीमान् शेषाद्रिनाथो मुनिजनहृदयाम्भोजसद्राजहंसः ।
सेवासक्तामरेन्द्रप्रमुखसुरकिरीटार्चितात्माङ्घ्रिपीठः ।
लोकस्यालोकमात्राद्विहरति रचयन् यो दिवारात्रलीलां
सोऽयं मां वेङ्कटेशप्रभुरधिककृपावारिधिः पातु शश्वत् ॥ ९ ॥

श्रीशेषशर्माभिनवोपवलुप्ता
प्रियेण भक्त्या च समर्पितेयम् ।
श्रीवेङ्कटेशप्रभुकण्ठभूषा
विराजतां श्रीनवरत्नमाला ॥ १० ॥

इति श्री वेङ्कटेश्वर नवरत्नमालिका स्तुतिः समाप्ता ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed