Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः ।
अमृतांशो जगद्वन्द्यो गोविन्दश्शाश्वतः प्रभुः ॥ १ ॥
शेषाद्रिनिलयो देवः केशवो मधुसूदनः ।
अमृतो माधवः कृष्णः श्रीहरिर्ज्ञानपञ्जरः ॥ २ ॥
श्रीवत्सवक्षा-स्सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योति-र्वैकुण्ठपति-रव्ययः ॥ ३ ॥
सुधातनु-र्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णुरच्युतः पद्मिनीप्रियः ॥ ४ ॥
धरापति-स्सुरपति-र्निर्मलो देवपूजितः ।
चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः ॥ ५ ॥
निर्विकल्पो निष्कलङ्को निरन्तरो निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ ६ ॥
गदाधर शार्ङ्गपाणिर्नन्दकीशङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ७ ॥
अनेकात्मा दीनबन्धु-रार्तलोकाऽभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममन्दिरः ॥ ८ ॥
दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रमश्शिंशुमारो जटामकुटशोभितः ॥ ९ ॥
शङ्खमध्योल्लसन्मञ्जुकिङ्किण्याढ्यकरण्डकः ।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः ॥ १० ॥
जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशार्हो दशरूपवान् ॥ ११ ॥
देवकीनन्दन-श्शौरि-र्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीताम्बरधरोऽनघः ॥ १२ ॥
वनमाली पद्मनाभो मृगयासक्तमानसः ।
अश्वारूढः खड्गधारी धनार्जनसमुत्सुकः ॥ १३ ॥
घनसारलसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः ॥ १४ ॥
यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रद-श्शान्त-श्श्रीमान् दोर्दण्ड विक्रमः ॥ १५ ॥
परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्य नाम्नां अष्टोत्तरं शतम् ॥ १६ ॥
पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वान् कामानवाप्नुयात् ॥ १७ ॥
इति श्री ब्रह्माण्डपुराणे श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.