Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मुखे चारुहासं करे शङ्खचक्रं
गले रत्नमालां स्वयं मेघवर्णम् ।
तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ १ ॥
सदाभीतिहस्तं मुदाजानुपाणिं
लसन्मेखलं रत्नशोभाप्रकाशम् ।
जगत्पादपद्मं महत्पद्मनाभं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ २ ॥
अहो निर्मलं नित्यमाकाशरूपं
जगत्कारणं सर्ववेदान्तवेद्यम् ।
विभुं तापसं सच्चिदानन्दरूपं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ३ ॥
श्रिया विष्टितं वामपक्षप्रकाशं
सुरैर्वन्दितं ब्रह्मरुद्रस्तुतं तम् ।
शिवं शङ्करं स्वस्तिनिर्वाणरूपं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ४ ॥
महायोगसाद्ध्यं परिभ्राजमानं
चिरं विश्वरूपं सुरेशं महेशम् ।
अहो शान्तरूपं सदाध्यानगम्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ५ ॥
अहो मत्स्यरूपं तथा कूर्मरूपं
महाक्रोडरूपं तथा नारसिंहम् ।
भजे कुब्जरूपं विभुं जामदग्न्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ६ ॥
अहो बुद्धरूपं तथा कल्किरूपं
प्रभुं शाश्वतं लोकरक्षामहन्तम् ।
पृथक्काललब्धात्मलीलावतारं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ७ ॥
इति श्रीवेङ्कटेशभुजङ्गं सम्पूर्णम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.