Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हयग्रीव उवाच ।
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ॥ १
पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ।
तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ २
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ।
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ॥ ३
नामद्वादशकाभिख्य वज्रपञ्जर मध्यगः ।
सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ ४
एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ ५
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोध्याये श्री वाराही द्वादशनाम स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
Report mistakes and corrections in Stotranidhi content.
Facebook Comments