Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरत्
शेषस्यूतनृसिंहपाणिनखर प्रोतादि कोलामिषः ।
विश्वैकार्णवताविहारमुदितौ यौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्यतु स नो मोहं महाभैरवः ॥ १ ॥
नीलरुचि वेदकरवह्नि नयनं सत्
शूलककपालडमरुं च सहपाशम् ।
नग्नशुनवाहनसकिङ्किणिविभूषं
प्रोच्चगति केशधरसर्पवरहारम् ॥ २ ॥
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
भैरवं भैरवीयुक्तं अन्यैश्च निजकिङ्करैः ॥ ३ ॥
कल्पवृक्षस्य मूले तु रत्नमण्टपमध्यमे ।
मणिसिंहासनासीनं नानाभरणभूषितम् ॥ ४ ॥
तरुणादित्यसङ्काशं रक्तमाल्याम्बरोज्ज्वलम् ।
उद्यत्पिङ्गजटाबद्ध चारुचन्द्रकलाधरम् ॥ ५ ॥
कमलं स्वर्णपात्रं च वरं चाभयमेव च ।
शङ्खं पीयूषकुम्भं च बिभ्राणं करपङ्कजैः ॥ ६ ॥
देव्या चम्पकवर्णाङ्ग्या समालिङ्गितविग्रहम् ।
स्वपादपद्मभक्तानां वर्षन्तं स्वर्णधारया ॥ ७ ॥
करुणासागरं देवं स्वर्णाकर्षणभैरवम् ।
सिद्धविद्याधरैर्नित्यं स्तूयमानं समाश्रये ॥ ८ ॥
स्वर्णप्रदः स्वर्णवर्षी स्वर्णाकर्षणभैरवः ।
भक्तप्रियो भक्तवश्यो भक्ताभीष्टफलप्रदः ॥ ९ ॥
सिद्धिदः करुणामूर्तिः प्रणताभीष्टपूरकः ।
निधिसिद्धिप्रदः स्वर्णसिद्धिदो रससिद्धिदः ॥ १० ॥
एतैः पदैः शुभैर्दिव्यैर्योऽर्चयेत् स्वर्णभैरवम् ।
स्वर्णसिद्धिमवाप्नोति भैरवस्य प्रसादतः ॥ ११ ॥
गाङ्गेयपात्रं डमरुं त्रिशूलं
पाशं करैः सन्दधतं त्रिणेत्रम् ।
देव्या युतं श्वानवराश्रितं तं
स्वर्णाभिधं भैरवमाश्रयेऽहम् ॥ १२ ॥
ब्रह्मा यस्य मनोर्मुनिः निगदितस्त्रिष्ठुप् च छन्दः स्वयं
स्वर्णाकर्षणभैरवो हरिहर ब्रह्मात्मको देवता ।
आं बीजं सह शक्तिरित्यभिहितस्तस्यैव सूत्रात्मनः
स्तोत्रध्यानपुरःसरं मनुवरं वक्ष्यामि सम्प्रत्यहम् ॥ १३ ॥
मन्दारद्रुममूलभाजि महिते माणिक्यसिंहासने
दिव्ये रत्नमये सुचम्पकरुचा देव्या समालिङ्गितः ।
भक्तेभ्यो वररत्नपात्रभरितं स्वर्णं दधानोऽनिशं
स्वर्णाकर्षणभैरवो विजयते स्वर्गापवर्गैकभूः ॥ १४ ॥
ओं ऐं क्लां क्लीं क्लूं इति व्याहरद्भ्यो
भिक्षां हैमीं यः स्वयं सम्प्रयच्छन् ।
कारुण्याब्धिः कल्पमूलाधिवासः
स्वर्णाकर्षो भैरवो नोऽस्तु भूत्यै ॥ १५ ॥
ओं ह्रां ह्रीं ह्रूं इत्यन्वहं जापकानां
वर्षन्तं द्राक् स्वर्णवृष्टिं समग्राम् ।
नित्यं स्वच्छं सूर्यकोटिप्रकाशं
स्वर्णाकर्षं भैरवं भावयामि ॥ १६ ॥
मरकतमणिपात्रे सम्भृतं स्वर्णपूरं
स्वमनुमननकृद्भ्यः सादरं सम्प्रदात्रे ।
कुरु हृदय सपर्यां सेव्यमानाय नित्यं
सुरवरभुजगेन्द्रैरापदुद्धारणाय ॥ १७ ॥
नमोऽजामलबद्धाय कल्पमूलनिवासिने ।
स्वर्णाकर्षणशीलाय साधकानां हितात्मने ॥ १८ ॥
लोकेश्वरायाम्बुरुहासनाद्यैः
बर्हिर्मुखैरर्चितपादुकाय ।
दारिद्र्यनिर्मूलनकर्मठाय
कारुण्यवारां निधये नमस्ते ॥ १९ ॥
दीनानाथविपन्नरक्षणरतैराज्ञाप्रतीक्षाकरैः
सिद्धैः साध्यनृकिन्नरोरगसुरैः नित्यं परीतात्मने ।
सानन्दाय समुल्लसद्वरमणिप्रद्योततेजोजुषे
स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम् ॥ २० ॥
स्वर्णाकर्षिण्या स्वदेव्याऽऽश्रिताय
स्वैरारावोदारसिंहासनाय ।
कुर्मो नित्यं शर्मदात्रे नमस्यां
मद्दारिद्र्य द्वेषिणे भैरवाय ॥ २१ ॥
स्वर्णप्रदानाध्वरदीक्षिताय
स्वतेजसाक्रान्तदिगन्तराय ।
सौभाग्यसम्पत्सदनाय नित्यं
श्रीं ह्रीं महाभैरव ते नमोऽस्तु ॥ २२ ॥
चिन्तामणि स्वजनकल्पितपारिजात-
-मन्दार वीतमणिमण्टपमध्यगाय ।
स्वर्णप्रदाननिरताय सदा सपर्यां
कुर्मो वयं त्रिकरणैर्वरभैरवाय ॥ २३ ॥
मूले कल्पतरोः प्रभामणिकृते भद्रासने संस्थितो
हस्ताम्भोरुह रत्नपात्रभरितैः कार्तस्वरैर्भासुरैः ।
अर्थीन् विद्रुतदुर्गतीन् विरचयन्नुद्यद्दिनेशद्युतिः
स्वर्णाकर्षणभैरवो भवतु मे दारिद्र्यविद्रावकः ॥ २४ ॥
कनकमणिविराजद्भूषणैर्भूषिताङ्गं
सकलमुनिजनानां स्वर्णदातारमीशम् ।
निगम शुनकवाहं भैरवं शूलपाणिं
विपुलवरजटालं सन्ततं भावयेऽहम् ॥ २५ ॥
स्वर्णाकर्षणभैरव मन्त्रमयं स्तोत्रमन्वहं जपताम् ।
निधिसिद्धिरसस्वर्णसिद्धयश्च झडिति जायते पुंसाम् ॥ २६ ॥
इति श्रीविजयासारावलीतः श्री स्वर्णाकर्षण भैरव स्तोत्रम् ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

