Sri Surya Stuti – श्री सूर्य स्तुतिः


नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ६ ॥

शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७ ॥

भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ८ ॥

क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥ ९ ॥

ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिस्स्वरूपाय विशुद्धायामलात्मने ॥ २ ॥

वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ३ ॥

तावद्यावन्न सम्योगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ १० ॥

सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ॥ ११ ॥

यतः साममयश्चैव ततो नाथ त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ १२ ॥

मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ १३ ॥

इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ४ ॥

न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ५ ॥

इति श्रीमार्कण्डेयपुराणे सूर्यस्तुतिः ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed