Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिरुवाच ।
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ।
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ॥ १ ॥
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ।
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ॥ २ ॥
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ।
पालनार्थाय लोकानां दुष्टासुरविनाशिने ॥ ३ ॥
उग्राय चैव सौम्याय चण्डाय च नमो नमः ।
नमश्चक्षुःस्वरूपाय संसारभयभेदिने ॥ ४ ॥
मायापञ्जरभेत्रे च शिवाय च नमो नमः ।
ग्रहातिग्रहरूपाय ग्रहाणां पतये नमः ॥ ५ ॥
कालाय मृत्यवे चैव भीमाय च नमो नमः ।
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः ॥ ६ ॥
विष्णुरूपाय शान्ताय चायुधानां धराय च ।
विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः ॥ ७ ॥
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ।
यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति ॥ ८ ॥
चक्रपूजाविधिं यश्च पठेद्रुद्र जितेन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ ९ ॥
इति श्रीगारुडे महापुराणे आचारकाण्डे त्रयस्त्रिंशोऽध्याये हरिप्रोक्त श्री सुदर्शन चक्र स्तोत्रम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.