Sri Subrahmanya Bhujanga Prayata Stotram 2 – श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् २



गणेशं नमस्कृत्य गौरीकुमारं
गजास्यं गुहस्याग्रजातं गभीरम् ।
प्रलम्बोदरं शूर्पकर्णं त्रिणेत्रं
प्रवक्ष्ये भुजङ्गप्रयातं गुहस्य ॥ १ ॥

पृथक्षट्किरीट स्फुरद्दिव्यरत्न-
-प्रभाक्षिप्तमार्ताण्डकोटिप्रकाशम् ।
चलत्कुण्डलोद्यत्सुगण्डस्थलान्तं
महानर्घहारोज्ज्वलत्कम्बुकण्ठम् ॥ २ ॥

शरत्पूर्णचन्द्रप्रभाचारुवक्त्रं
विराजल्ललाटं कृपापूर्णनेत्रम् ।
लसद्भ्रूसुनासापुटं विद्रुमोष्ठं
सुदन्तावलिं सुस्मितं प्रेमपूर्णम् ॥ ३ ॥

द्विषड्बाहुदण्डाग्रदेदीप्यमानं
क्वणत्कङ्कणालङ्कृतोदारहस्तम् ।
लसन्मुद्रिकारत्नराजत्कराग्रं
क्वणत्किङ्किणीरम्यकाञ्चीकलापम् ॥ ४ ॥

विशालोदरं विस्फुरत्पूर्णकुक्षिं
कटौ स्वर्णसूत्रं तटिद्वर्णगात्रम् ।
सुलावण्यनाभीसरस्तीरराज-
-त्सुशैवालरोमावलीरोचमानम् ॥ ५ ॥

सुकल्लोलवीचीवलीरोचमानं
लसन्मध्यसुस्निग्धवासो वसानम् ।
स्फुरच्चारुदिव्योरुजङ्घासुगुल्फं
विकस्वत्पदाब्जं नखेन्दुप्रभाढ्यम् ॥ ६ ॥

द्विषट्पङ्कजाक्षं महाशक्तियुक्तं
त्रिलोकप्रशस्तं सुशिक्के पुरस्थम् ।
प्रपन्नार्तिनाशं प्रसन्नं फणीशं
परब्रह्मरूपं प्रकाशं परेशम् ॥ ७ ॥

कुमारं वरेण्यं शरण्यं सुपुण्यं
सुलावण्यपण्यं सुरेशानुवर्ण्यम् ।
लसत्पूर्णकारुण्यलक्ष्मीशगण्यं
सुकारुण्यमार्याग्रगण्यं नमामि ॥ ८ ॥

स्फुरद्रत्नपीठोपरि भ्राजमानं
हृदम्भोजमध्ये महासन्निधानम् ।
समावृत्तजानुप्रभाशोभमानं
सुरैः सेव्यमानं भजे बर्हियानम् ॥ ९ ॥

ज्वलच्चारुचामीकरादर्शपूर्णं
चलच्चामरच्छत्रचित्रध्वजाढ्यम् ।
सुवर्णामलान्दोलिकामध्यसंस्थं
महाहीन्द्ररूपं भजे सुप्रतापम् ॥ १० ॥

धनुर्बाणचक्राभयं वज्रखेटं
त्रिशूलासिपाशाङ्कुशाभीतिशङ्खम् ।
ज्वलत्कुक्कुटं प्रोल्लसद्द्वादशाक्षं
प्रशस्तायुधं षण्मुखं तं भजेऽहम् ॥ ११ ॥

स्फुरच्चारुगण्डं द्विषड्बाहुदण्डं
श्रितामर्त्यषण्डं सुसम्पत्करण्डम् ।
द्विषद्वंशखण्डं सदा दानशौण्डं
भवप्रेमपिण्डं भजे सुप्रचण्डम् ॥ १२ ॥

सदा दीनपक्षं सुरद्विड्विपक्षं
सुमृष्टान्नभक्ष्यप्रदानैकदक्षम् ।
श्रितामर्त्यवृक्षं महादैत्यशिक्षं
बहुक्षीणपक्षं भजे द्वादशाक्षम् ॥ १३ ॥

त्रिमूर्तिस्वरूपं त्रयीसत्कलापं
त्रिलोकाधिनाथं त्रिणेत्रात्मजातम् ।
त्रिशक्त्या प्रयुक्तं सुपुण्यप्रशस्तं
त्रिकालज्ञमिष्टार्थदं तं भजेऽहम् ॥ १४ ॥

विराजद्भुजङ्गं विशालोत्तमाङ्गं
विशुद्धात्मसङ्गं विवृद्धप्रसङ्गम् ।
विचिन्त्यं शुभाङ्गं विकृत्तासुराङ्गं
भवव्याधिभङ्गं भजे कुक्कलिङ्गम् ॥ १५ ॥

गुह स्कन्द गाङ्गेय गौरीसुतेश-
-प्रिय क्रौञ्चभित्तारकारे सुरेश ।
मयूरासनाशेषदोषप्रणाश
प्रसीद प्रसीद प्रभो चित्प्रकाश ॥ १६ ॥

लपन् देवसेनेश भूतेश शेष-
-स्वरूपाग्निभूः कार्तिकेयान्नदातः ।
यदेत्थं स्मरिष्यामि भक्त्या भवन्तं
तदा मे षडास्य प्रसीद प्रसीद ॥ १७ ॥

भुजे शौर्यधैर्यं करे दानधर्मः
कटाक्षेऽतिशान्तिः षडास्येषु हास्यम् ।
हृदब्जे दया यस्य तं देवमन्यं
कुमारान्न जाने न जाने न जाने ॥ १८ ॥

महीनिर्जरेशान्महानृत्यतोषात्
विहङ्गाधिरूढाद्बिलान्तर्विगूढात् ।
महेशात्मजातान्महाभोगिनाथा-
-द्गुहाद्दैवमन्यन्न मन्ये न मन्ये ॥ १९ ॥

सुरोत्तुङ्गशृङ्गारसङ्गीतपूर्ण-
-प्रसङ्गप्रियासङ्गसम्मोहनाङ्ग ।
भुजङ्गेश भूतेश भृङ्गेश तुभ्यं
नमः कुक्कलिङ्गाय तस्मै नमस्ते ॥ २० ॥

नमः कालकण्ठप्ररूढाय तस्मै
नमो नीलकण्ठाधिरूढाय तस्मै ।
नमः प्रोल्लसच्चारुचूडाय तस्मै
नमो दिव्यरूपाय शान्ताय तस्मै ॥ २१ ॥

नमस्ते नमः पार्वतीनन्दनाय
स्फुरच्चित्रबर्हीकृतस्यन्दनाय ।
नमश्चर्चिताङ्गोज्ज्वलच्चन्दनाय
प्रविच्छेदितप्राणभृद्बन्धनाय ॥ २२ ॥

नमस्ते नमस्ते जगत्पावनात्त-
-स्वरूपाय तस्मै जगज्जीवनाय ।
नमस्ते नमस्ते जगद्वन्दिताय
ह्यरूपाय तस्मै जगन्मोहनाय ॥ २३ ॥

नमस्ते नमस्ते नमः क्रौञ्चभेत्त्रे
नमस्ते नमस्ते नमो विश्वकर्त्रे ।
नमस्ते नमस्ते नमो विश्वगोप्त्रे
नमस्ते नमस्ते नमो विश्वहन्त्रे ॥ २४ ॥

नमस्ते नमस्ते नमो विश्वभर्त्रे
नमस्ते नमस्ते नमो विश्वधात्रे ।
नमस्ते नमस्ते नमो विश्वनेत्रे
नमस्ते नमस्ते नमो विश्वशास्त्रे ॥ २५ ॥

नमस्ते नमः शेषरूपाय तुभ्यं
नमस्ते नमो दिव्यचापाय तुभ्यम् ।
नमस्ते नमः सत्प्रतापाय तुभ्यं
नमस्ते नमः सत्कलापाय तुभ्यम् ॥ २६ ॥

नमस्ते नमः सत्किरीटाय तुभ्यं
नमस्ते नमः स्वर्णपीठाय तुभ्यम् ।
नमस्ते नमः सल्ललाटाय तुभ्यं
नमस्ते नमो दिव्यरूपाय तुभ्यम् ॥ २७ ॥

नमस्ते नमो लोकरक्षाय तुभ्यं
नमस्ते नमो दीनरक्षाय तुभ्यम् ।
नमस्ते नमो दैत्यशिक्षाय तुभ्यं
नमस्ते नमो द्वादशाक्षाय तुभ्यम् ॥ २८ ॥

भुजङ्गाकृते त्वत्प्रियार्थं मयेदं
भुजङ्गप्रयातेन वृत्तेन क्लप्तम् ।
तव स्तोत्रमेतत्पवित्रं सुपुण्यं
परानन्दसन्दोहसंवर्धनाय ॥ २९ ॥

त्वदन्यत्परं दैवतं नाभिजाने
प्रभो पाहि सम्पूर्णदृष्ट्यानुगृह्य ।
यथाशक्ति भक्त्या कृतं स्तोत्रमेकं
विभो मेऽपराधं क्षमस्वाखिलेश ॥ ३० ॥

इदं तारकारेर्गुणस्तोत्रराजं
पठन्तस्त्रिकालं प्रपन्ना जना ये ।
सुपुत्राष्टभोगानिह त्वेव भुक्त्वा
लभन्ते तदन्ते परं स्वर्गभोगम् ॥ ३१ ॥

इति श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed