Sri Subrahmanya Ashtottara Shatanama Stotram – श्री सुब्रह्मण्याष्टोत्तरशतनाम स्तोत्रम्


श्री सुब्रह्मण्य अष्टोत्तरशतनामावली >>

स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ १ ॥

द्विषण्णेत्रः शक्तिधरः पिशिताशप्रभञ्जनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ २ ॥

मत्तः प्रमत्तोन्मत्तश्च सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥ ३ ॥

उमासुतः शक्तिधरः कुमारः क्रौञ्चदारणः ।
सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥ ४ ॥

शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥ ५ ॥

गङ्गासुतः शरोद्भूत आहूतः पावकात्मजः ।
जृम्भः प्रजृम्भः उज्जृम्भः कमलासनसंस्तुतः ॥ ६ ॥

एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पञ्चवर्णः प्रजापतिरहर्पतिः ॥ ७ ॥

अग्निगर्भः शमीगर्भो विश्वरेताः सुरारिहा ।
हरिद्वर्णः शुभकरः वटुश्च वटुवेषभृत् ॥ ८ ॥

पूषा गभस्तिर्गहनः चन्द्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥ ९ ॥

विश्वयोनिरमेयात्मा तेजोनिधिरनामयः ।
परमेष्ठी परब्रह्मा वेदगर्भो विराट्सुतः ॥ १० ॥

पुलिन्दकन्याभर्ता च महासारस्वतावृतः ।
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥ ११ ॥

अनन्तमूर्तिरानन्दः शिखिण्डिकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ १२ ॥

कारणोपात्तदेहश्च कारणातीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३ ॥

विरुद्धहन्ता वीरघ्नो रक्तास्यः श्यामकन्धरः ।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः ।
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥ १४ ॥

इति श्री सुब्रह्मण्याष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed