Sri Skanda Stavam – श्री स्कन्द स्तवम्


वामदेव उवाच ।
ओं नमः प्रणवार्थाय प्रणवार्थविधायिने ।
प्रणवाक्षरबीजाय प्रणवाय नमो नमः ॥ १ ॥

वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।
वेदान्तार्थविदे नित्यं विदिताय नमो नमः ॥ २ ॥

नमो गुहाय भूतानां गुहासु निहिताय च ।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥ ३ ॥

अणोरणीयसे तुभ्यं महतोऽपि महीयसे ।
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥ ४ ॥

स्कन्दाय स्कन्दरूपाय मिहिरारुणतेजसे ।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥ ५ ॥

शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।
शिवप्रियाय शिवयोरानन्दनिधये नम ॥ ६ ॥

गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।
उमापुत्राय महते शरकाननशायिने ॥ ७ ॥

षडक्षरशरीराय षड्विधार्थविधायिने ।
षडध्वातीतरूपाय षण्मुखाय नमो नमः ॥ ८ ॥

द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।
द्वादशायुधधाराय द्वादशात्मन्नमोऽस्तु ते ॥ ९ ॥

चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे ।
वरदाय विहस्ताय नमोऽसुरविदारिणे ॥ १० ॥

गजावल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे ।
नमो गजाननानन्दमहिमानन्दितात्मने ॥ ११ ॥

ब्रह्मादिदेवमुनिकिन्नरगीयमान-
-गाथाविशेषशुचिचिन्तितकीर्तिधाम्ने ।
बृन्दारकामलकिरीटविभूषणस्र-
-क्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ॥ १२ ॥

इति स्कन्दस्तवं दिव्यं वामदेवेन भाषितम् ।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ १३ ॥

महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्धनम् ।
आयुरारोग्यधनकृत्सर्वकामप्रदं सदा ॥ १४ ॥

इति श्रीशिवमहापुराणे कैलाससंहितायां एकादशोऽध्याये वामदेवकृत स्कन्दस्तवम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed