Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भूखण्डं वारणाण्डं परवरविरटं डम्पडम्पोरुडम्पं
डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।
तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः
एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १ ॥
भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलज्ज्वालमालं
खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तम् ।
भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं
स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २ ॥
एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो
हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।
दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो
निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३ ॥
शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं
बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४ ॥
पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं
नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।
दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं
वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५ ॥
नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं
रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रम् ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं
वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६ ॥
के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा
देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन
ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७ ॥
झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं
हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारम् ।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं
लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८ ॥
भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना
चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयम् ।
सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः
प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९ ॥ ।
इति श्रीविजयीन्द्रतीर्थ कृतं श्री षोडशबाहु नृसिंहाष्टकम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

