Sri Shiva Sahasranama stotram (Poorva Peetika) – श्री शिव सहस्रनाम स्तोत्रम् – पूर्वपीठिका

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

पूर्वपीठिक ॥

वासुदेव उवाच ।
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहमादितः ॥ १ ॥

उपमन्युरुवाच ।
ब्रह्मप्रोक्तैः ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः ।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २ ॥

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३ ॥

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ ४ ॥

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ।
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ ५ ॥

वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ।
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ ६ ॥

तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनं ।
न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ ७ ॥

युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिमध्यमन्तं च सुरैरपि न गम्यते ॥ ८ ॥

कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव ।
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् ॥ ९ ॥

शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः ।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ १० ॥

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ ११ ॥

नाम्नां किञ्चित्समुद्देश्यं वक्ष्याम्यव्यक्तयोनिनः ।
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२ ॥

शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ।
दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३ ॥

तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतं ।
गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥ १४ ॥

घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतं ।
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५ ॥

प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ।
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६ ॥

इदं भक्ताय दातव्यं श्रद्धया नास्तिकाय च ।
नाश्रद्धधान रूपाय नास्तिकाया हितात्मने ॥ १७ ॥

यश्चाभ्यसूयतेदेवं कारणात्मानमीश्वरं ।
स कृष्ण नरकं याति सः पूर्वैः सहात्मजैः ॥ १८ ॥

इदं ध्यानम् इदं योगं इदं ध्येयमनुत्तमं ।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९ ॥

यं ज्ञात्वा ह्यन्तकालेपि गच्छेत परमां गतिं ।
पवित्रं मङ्गलं मेथ्यं कल्याणमिदमुत्तमम् ॥ २० ॥

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।
सर्व स्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१ ॥

तदा प्रभृति चैवायं ईश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२ ॥

ब्रह्मलोकादयं स्वर्ग्ये स्तवराजोवतारितः ।
यतस्तण्डिः पुराप्राप तेन तण्डि कृतो भवत् ॥ २३ ॥

स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ।
सर्वमङ्गल माङ्गल्यं सर्वपाप प्रणाशनम् ॥ २४ ॥

निगधिष्ये महाबाहो स्तवानामुत्तमं स्तवं ।
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥ २५ ॥

तेजसामपि यत्तेजस्तपसामपि यत्तपः ।
शान्तानामपि यः शान्तो द्युतीनामपि याद्युतिः ॥ २६ ॥

दान्तानामपि यो दान्तो धीमतामपि या च धीः ।
देवानामपि यो देव ऋषीणामपि यस्तृषिः ॥ २७ ॥

यज्ञानामपि यो यज्ञश्शिवानामपि यः शिवः ।
रुद्राणामपि यो रुद्रः प्रभाः प्रभवतामपि ॥ २८ ॥

योगिनामपि यो योगी कारणानां च कारणं ।
यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः ॥ २९ ॥

सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु ॥ ३० ॥

यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॥ ३१ ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: