Sri Sastha Panchakshara Stotram – श्री शास्ता पञ्चाक्षर स्तोत्रम्


ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजम् ।
शबरीपीठनिलयं शास्तारं प्रणतोऽस्म्यहम् ॥ १ ॥

नक्षत्रनाथवदनं नाथं त्रिभुवनावनम् ।
नमिताशेषभुवनं शास्तारं प्रणतोऽस्म्यहम् ॥ २ ॥

मन्मथायुतसौन्दर्यं महाभूतनिषेवितम् ।
मृगयारसिकं शूरं शास्तारं प्रणतोऽस्म्यहम् ॥ ३ ॥

शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकम् ।
शार्दूलदुग्धहर्तारं शास्तारं प्रणतोऽस्म्यहम् ॥ ४ ॥

वारणेन्द्रसमारूढं विश्वत्राणपरायणम् ।
वेत्रोद्भासिकराम्भोजं शास्तारं प्रणतोऽस्म्यहम् ॥ ५ ॥

यक्षिण्यभिमतं पूर्णापुष्कलापरिसेवितम् ।
क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोऽस्म्यहम् ॥ ६ ॥

इति श्री शास्ता पञ्चाक्षर स्तोत्रम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed