Sri Shani Kavacham 1 – श्री शनि कवचम् १



अस्य श्री शनैश्चर कवच स्तोत्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, शनैश्चरो देवता, शं बीजं, वां शक्तिः यं कीलकं, मम शनैश्चरकृतपीडापरिहारार्थे जपे विनियोगः ॥

करन्यासः –
शां अङ्गुष्ठाभ्यां नमः ।
शीं तर्जनीभ्यां नमः ।
शूं मध्यमाभ्यां नमः ।
शैं अनामिकाभ्यां नमः ।
शौं कनिष्ठिकाभ्यां नमः ।
शः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –
शां हृदयाय नमः ।
शीं शिरसे स्वाहा ।
शूं शिखायै वषट् ।
शैं कवचाय हुम् ।
शौं नेत्रत्रयाय वौषट् ।
शः अस्त्राय फट् ।

ध्यानम् –
चतुर्भुजं शनिं देवं चापतूणी कृपाणकम् ।
वरदं भीमदंष्ट्रं च नीलाङ्गं वरभूषणम् ॥ १ ॥

नीलमाल्यानुलेपं च नीलरत्नैरलङ्कृतम् ।
ज्वालोर्ध्वमकुटाभासं नीलगृध्ररथावहम् ॥ २ ॥

मेरुं प्रदक्षिणं कृत्वा सर्वलोकभयावहम् ।
कृष्णाम्बरधरं देवं द्विभुजं गृध्रसंस्थितम् ।
सर्वपीडाहारं नॄणां ध्यायेद्ग्रहगणोत्तमम् ॥ ३ ॥

अथ कवचम् –
शनैश्चरः शिरो रक्षेन्मुखं भक्तार्तिनाशनः ।
कर्णौ कृष्णाम्बरः पातु नेत्रे सर्वभयङ्करः ॥ ४ ॥

कृष्णाङ्गो नासिकां रक्षेत् कर्णौ मे च शिखण्डिजः ।
भुजौ मे सुभुजः पातु हस्तौ नीलोत्पलप्रभः ॥ ५ ॥

पातु मे हृदयं कृष्णः कुक्षिं शुष्कोदरस्तथा ।
कटिं मे विकटः पातु ऊरू मे घोररूपवान् ॥ ६ ॥

जानुनी पातु दीर्घो मे जङ्घे मे मङ्गलप्रदः ।
गुल्फौ गुणाकरः पातु पादौ मे पङ्गुपादकः ।
सर्वाणि च ममाङ्गानि पातु भास्करनन्दनः ॥ ७ ॥

फलश्रुतिः –
य इदं कवचं दिव्यं सर्वपीडाहरं नृणाम् ।
पठति श्रद्धया युक्तः सर्वान् कामानवाप्नुयात् ।
इहलोके सुखीभूत्वा पठेन्मुक्तो भविष्यति ॥ ८ ॥

इति श्रीपद्मपुराणे श्री शनि कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed