Sri Shani Kavacham 1 – श्री शनि कवचम् – १


अस्य श्री शनैश्चर कवच स्तोत्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, शनैश्चरो देवता, शं बीजं, वां शक्तिः यं कीलकं, मम शनैश्चरकृतपीडापरिहारार्थे जपे विनियोगः ॥

करन्यासः –
शां अङ्गुष्ठाभ्यां नमः ।
शीं तर्जनीभ्यां नमः ।
शूं मध्यमाभ्यां नमः ।
शैं अनामिकाभ्यां नमः ।
शौं कनिष्ठिकाभ्यां नमः ।
शः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –
शां हृदयाय नमः ।
शीं शिरसे स्वाहा ।
शूं शिखायै वषट् ।
शैं कवचाय हुम् ।
शौं नेत्रत्रयाय वौषट् ।
शः अस्त्राय फट् ।

ध्यानम् –
चतुर्भुजं शनिं देवं चापतूणी कृपाणकम् ।
वरदं भीमदंष्ट्रं च नीलाङ्गं वरभूषणम् ॥ १ ॥

नीलमाल्यानुलेपं च नीलरत्नैरलङ्कृतम् ।
ज्वालोर्ध्वमकुटाभासं नीलगृध्ररथावहम् ॥ २ ॥

मेरुं प्रदक्षिणं कृत्वा सर्वलोकभयावहम् ।
कृष्णाम्बरधरं देवं द्विभुजं गृध्रसंस्थितम् ।
सर्वपीडाहारं नॄणां ध्यायेद्ग्रहगणोत्तमम् ॥ ३ ॥

अथ कवचम् –
शनैश्चरः शिरो रक्षेन्मुखं भक्तार्तिनाशनः ।
कर्णौ कृष्णाम्बरः पातु नेत्रे सर्वभयङ्करः ॥ ४ ॥

कृष्णाङ्गो नासिकां रक्षेत् कर्णौ मे च शिखण्डिजः ।
भुजौ मे सुभुजः पातु हस्तौ नीलोत्पलप्रभः ॥ ५ ॥

पातु मे हृदयं कृष्णः कुक्षिं शुष्कोदरस्तथा ।
कटिं मे विकटः पातु ऊरू मे घोररूपवान् ॥ ६ ॥

जानुनी पातु दीर्घो मे जङ्घे मे मङ्गलप्रदः ।
गुल्फौ गुणाकरः पातु पादौ मे पङ्गुपादकः ।
सर्वाणि च ममाङ्गानि पातु भास्करनन्दनः ॥ ७ ॥

फलश्रुतिः –
य इदं कवचं दिव्यं सर्वपीडाहरं नृणाम् ।
पठति श्रद्धया युक्तः सर्वान् कामानवाप्नुयात् ।
इहलोके सुखीभूत्वा पठेन्मुक्तो भविष्यति ॥ ८ ॥

इति श्रीपद्मपुराणे श्री शनि कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed