Sri Rajni Stotram – श्री राज्ञी स्तोत्रम्


विश्वेश्वरी निखिलदेवमहर्षिपूज्या
सिंहासना त्रिनयना भुजगोपवीता ।
शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १ ॥

जन्माटवीप्रदहने दववह्निभूता
तत्पादपङ्कजरजोगत चेतसां या ।
श्रेयोवतां सुकृतिनां भवपाशभेत्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २ ॥

देव्या यया दनुजराक्षसदुष्टचेतो
न्यग्भावितं चरणनूपुरशिञ्जितेन ।
इन्द्रादिदेवहृदयं प्रविकासयन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३ ॥

दुःखार्णवे हि पतितं शरणागतं या
चोद्धत्य सा नयति धाम परं दयाब्धिः ।
विष्णुर्गजेन्द्रमिव भीतभयापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४ ॥

यस्या विचित्रमखिलं हि जगत्प्रपञ्चं
कुक्षौ विलीनमपि सृष्टिविसृष्टिरूपात् ।
आविर्भवत्यविरतं चिदचित्स्वभावं
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५ ॥

यत्पादपङ्कजरजःकणज प्रसादा-
-द्योगीश्वरैर्विगतकल्मषमानसैस्तत् ।
प्राप्तं पदं जनिविनाशहरं परं सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६ ॥

यत्पादपङ्कजरजांसि मनोमलानि
संमार्जयन्ति शिवविष्णुविरिञ्चिदेवैः ।
मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७ ॥

यद्दर्शनामृतनदी महदोघयुक्ता
सम्प्लावयत्यखिलभेदगुहास्वऽनन्ता ।
तृष्णाहरा सुकृतिनां भवतापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८ ॥

यत्पादचिन्तन दिवाकररश्मिमाला
चान्तर्बहिष्करणवर्गसरोजषण्डम् ।
ज्ञानोदये सति विकास्य तमोपहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९ ॥

हंसस्थिता सकलशब्दमयी भवानी
वाग्वादिनी हृदय पुष्कर चारिणीया ।
हंसीव हंस रजनीश्वर वह्निनेत्रा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १० ॥

या सोमसूर्यवपुषा सततं सरन्ती
मूलाश्रयात्तडिदिवाऽऽविधिरन्ध्रमीढ्या ।
मध्यस्थिता सकलनाडिसमूह पूर्णा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११ ॥

चैतन्यपूरित समस्तजगद्विचित्रा
मातृ प्रमेयपरिमाणतया चकास्ति ।
या पूर्णवृत्यहमिति स्वपदाधिरूढा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२ ॥

या चित्क्रमक्रमतया प्रविभाति नित्या
स्वातन्त्र्य शक्तिरमला गतभेदभावा ।
स्वात्मस्वरूपसुविमर्शपरैः सुगम्या
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३ ॥

या कृत्यपञ्चकनिभालनलालसैस्तैः
सन्दृश्यते निखिलवेद्यगतापि शश्वत् ।
सान्तर्धृता परप्रमातृपदं विशन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४ ॥

याऽनुत्तरात्मनि पदे परमाऽमृताब्धौ
स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती ।
संलीयते स्वरसतः स्वपदे सभावा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५ ॥

मेरोः सदैव हि दरीषुविचित्रवाग्भि-
-र्गायन्ति या भगवतीं परिवादिनीभिः ।
विद्याधरा हि पुलकाङ्कित विग्रहाः सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६ ॥

राज्ञी सदा भगवती मनसा स्मरामि
राज्ञी सदा भगवती वचसा गृणामि ।
राज्ञी सदा भगवती शिरसा नमामि
राज्ञी सदा भगवती शरणं प्रपद्ये ॥ १७ ॥

राज्ञ्याः स्तोत्रमिदं पुण्यं यः पठेद्भक्तिमान्नरः ।
नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८ ॥

इति श्रीविद्याधर विरचितं श्री राज्ञी स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed