Sri Raghava Ashtakam – श्री राघवाष्टकम्


राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम् ।
वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं
यातुधानभयङ्करं प्रणमामि राघवकुञ्जरम् ॥ १ ॥

मैथिलीकुचभूषणामल नीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
नागरीवनिताननाम्बुजबोधनीयकलेवरं
सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २ ॥

हेमकुण्डलमण्डितामलकण्ठदेशमरिन्दमं
शातकुम्भ मयूरनेत्रविभूषणेन विभूषितम् ।
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३ ॥

दण्डकाख्यवने रतामरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिपार्थकृतस्तुतिम् ।
कुम्भकर्णभुजाभुजङ्गविकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४ ॥

केतकीकरवीरजातिसुगन्धिमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसम् ।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ॥ ५ ॥

यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितम् ।
ताटकावधहेतुमङ्गदतातवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६ ॥

लीलया खरदूषणादिनिशाचराशुविनाशनं
रावणान्तकमच्युतं हरियूथकोटिगणाश्रयम् ।
नीरजाननमम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७ ॥

कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनम् ।
वासवादिसुरारिरावणशासनं च पराङ्गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८ ॥

राघवाष्टकमिष्टसिद्धिदमच्युताश्रयसाधकं
मुक्तिभुक्तिफलप्रदं धनधान्यसिद्धिविवर्धनम् ।
रामचन्द्रकृपाकटाक्षदमादरेण सदा जपेत्
रामचन्द्रपदाम्बुजद्वय सन्ततार्पितमानसः ॥ ९ ॥

राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १० ॥

इति श्री राघवाष्टकम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed