Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री अथर्वण भद्रकाली महा महा प्रत्यङ्गिरा परमेश्वरि शुद्धशक्ति सम्बुद्ध्यन्त माला महा मन्त्रस्य उपस्थेन्द्रियाधिष्ठायी वरुणादित्य अङ्गिरा प्रत्यङ्गिरा विजय भैरवादि स्वर्णाकर्षणभैरवात्मक ध्यान परिपूर्णानन्द पराशिव ऋषिः अनुष्टुप् छन्दः महोग्र क्षकार भट्टारक महापीठस्थित महाकालाङ्गनिलया श्री ब्राह्मी नारायणी रौद्री उग्रकृत्या महाकृत्यात्मक अथर्वण भद्रकाली महा महा प्रत्यङ्गिरा परमेश्वरी श्रीमाता देवता क्षं बीजं फट् शक्तिः स्वाहा कीलकं श्रीमहाप्रत्यङ्गिरा खड्गसिद्ध्यर्थे विनियोगः ॥
करन्यासः –
क्षां अङ्गुष्ठाभ्यां नमः ।
क्षीं तर्जनीभ्यां नमः ।
क्षूं मध्यमाभ्यां नमः ।
क्षैं अनमिकाभ्यां नमः ।
क्षौं कनिष्ठिकाभ्यां नमः ।
क्षः करतल करपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
क्षां हृदयाय नमः ।
क्षीं शिरसे स्वाहा ।
क्षूं शिखायै वषट् ।
क्षैं कवचाय हुम् ।
क्षौं नेत्रत्रयाय वौषट् ।
क्षः अस्त्राय फट् ।
ध्यानम् –
आशाम्बरा मुक्तकचा घनच्छवि-
-र्ध्येया सचर्मासि करा हि भूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिता हिता त्वया
प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥ १ ॥
सिंहीं सिंहमुखीं सखीं भगवतीं श्रीभैरवस्योल्लसत्
शूल स्थूल कपाल पाश डमरु व्याघ्राग्र हस्ताम्बुजाम् ।
दंष्ट्रां कोटि विशङ्कटास्य कुहरामारक्तनेत्रत्रयां
बालेन्दूज्ज्वल मौलिकां भगवतीं प्रत्यङ्गिरां भावये ॥ २ ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि ।
अथ द्विसहस्राक्षरी खड्गमाला मन्त्रः –
ओं ऐं ह्रीं क्लीं क्ष्म्रौं क्रीं श्रीं लं क्षं हुं फट् स्वाहा ॥
ओं नमो प्रत्यङ्गिरे हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि कालि कपालिनि कुल्ले कुरुकुल्ले विरोधिनि विप्रचित्ते उग्रे उग्रप्रभे दीप्ते नीले घने बलाके मात्रे मुद्रे मिते परमात्मिके परमेश्वरपरमेश्वरि अङ्गिरा प्रत्यङ्गिरा मयि महादेव्यम्बे महादेवानन्दमयि त्रिपुरानन्दमयि चलच्चित्तानन्दमयि चलाचलानन्दमयि कुमारानन्दमयि क्रोधानन्दमयि वरदानन्दमयि स्मरदीपानन्दमयि श्रीमत्सेनानन्दमयि सुधाकरानन्दमयि प्रह्लादानन्दमयि सनकानन्दमयि वसिष्ठानन्दमयि भोगानन्दमयि मीनानन्दमयि गोरक्षकानन्दमयि भोजदेवानन्दमयि प्रजापत्यानन्दमयि मूलदेवानन्दमयि रन्तिदेवानन्दमयि विघ्नेश्वरानन्दमयि हुताशनानन्दमयि समयानन्दमयि सन्तोषानन्दमयि गणेशि दुर्गे वटुकेश्वरि क्षेत्रपालाम्बे सरस्वति लक्ष्मि शङ्खनिधे पद्मनिधे क्षेत्रपालेश्वरि अघोरे शरभेश्वरि महासुदर्शनशक्ते ऐन्द्रि आग्नेयि याम्ये नैरृत्ये वारुणि वायव्ये कौबेरि ईशानि ब्राह्मि वैष्णवि वास्तुपुरुषमयि वज्रिणि शक्तिनि दण्डिनि खड्गिनि पाशिनि अङ्कुशिनि गदिनि त्रिशूलिनि पद्मिनि चक्रिणि सर्वस्तम्भिनि मुद्राशक्ते भूपुरात्मक त्रैलोक्य सर्वसम्मोहन चक्रस्वामिनि नीलकण्ठभैरवशक्तिसहित जयादि प्रथमाष्टकोटियोगिनीवृन्द मयूकावृते ॥ १ ॥
कौलानन्दमयि परमाचार्यमयि परमगुरुमयि परमेष्ठि गुरुमयि प्रह्लादनाथमयि सकलानन्दनाथमयि कुमारानन्दनाथमयि दिव्यौघमयि वसिष्ठानन्दनाथमयि क्रोधानन्दनाथमयि सुरानन्दनाथमयि सिद्धौघमयि ध्यानानन्दनाथमयि बोधानन्दनाथमयि सुखानन्दनाथमयि मानौघमयि सर्वसम्मोहिनी मुद्राशक्ते त्रिवलयरूप गुरुमण्डलात्मक सृष्टिचक्रस्वामिनि विश्वरूपभैरवशक्तिसहित प्रेतासनादि द्वितीयाष्टकोटियोगिनीवृन्द मयूकावृते ॥ २ ॥
असिताङ्गभैरवि ब्राह्मि रुरुभैरवि महेश्वरि चण्डभैरवि कौमारि क्रोधभैरवि वैष्णवि उन्मत्तभैरवि वाराहि कपालभैरवि माहेन्द्रि भीषणभैरवि चामुण्डे संहारभैरवि नारसिंहि सर्वसङ्क्षोभिणी मुद्राशक्ते षोडशदलरूप अष्टभैरवशक्तिसहित अष्टमातृकात्मक सर्वाकर्षणचक्रस्वामिनि मेघनाथभैरवशक्तिसहित ऊर्ध्वकेशीत्यादि तृतीयाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ३ ॥
कामरूप पीठशक्त्यात्मिके मलयगिरि पीठात्मिके कोल्हागिरि पीठेश्वरि कालान्तक पीठशक्ते चौहार पीठाम्बे जालन्धर पीठरूपिणी उड्डियाण पीठस्थिते देवकूट पीठश्रीः सर्वविद्राविणी मुद्राशक्ते अष्टदलग्रन्थिस्थानरूप अष्टशक्तिपीठात्मकः अन्तर्बहिर्-महाशत्रुसंहारचक्रस्वामिनि गदाधरभैरवशक्तिसहित राक्षसीत्यादि तुरीयाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ४ ॥
हेतुकभैरवि वेतालभैरवि त्रिपुरान्तकभैरवि अग्निजिह्वभैरवि कालान्तकभैरवि एकपादभैरवि कपालभैरवि भीमरूपभैरवि मलयभैरवि हाटकेश्वरभैरवि सर्वजृम्भिणी मुद्राशक्ते वृत्तमण्डलरूप दशभैरवशक्त्यात्मक सर्वस्थूलभेदनचक्रस्वामिनि संहारभैरवशक्तिसहित भैरवीत्यादि पञ्चमाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ५ ॥
सर्वस्तम्भिनि सर्वसङ्क्षोभिणि सर्वविद्राविणि सर्वभ्रामिणि सर्वसम्मोदिनि सर्वजृम्भिणि सर्वरौद्रिणि सर्वसंहारिणि सर्वबीजमुद्राशक्ते द्विचतुरस्र अष्टयोनिरूप अष्टमुद्राशक्त्यात्मक सर्वसूक्ष्मोच्चाटनचक्रस्वामिनि कुलभैरवशक्तिसहित कालीत्यादि षष्टाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ६ ॥
हृदयशक्ति वामिनि शिरसशक्ति नीलिनि शिखाशक्ति चक्रिणि कवचशक्ति खड्गिनि नेत्रशक्ति पाशाङ्गि अस्त्रशक्ति कम्पिनि सर्वसंहारिणिमुद्राशक्ते षट्कोणरूप षडङ्गशक्त्यात्मक सर्वलयाङ्गचक्रस्वामिनि त्रिनेत्रभैरवशक्तिसहित केशिन्यादि सप्तमाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ७ ॥
मधुरकालि भद्रकालि नित्यकालि सर्वयोनिमुद्राशक्ते महायोनिरूप अष्टोत्तरशत महाकालीशक्त्यात्मक सर्वतिरोधानचक्रस्वामिनि ईशभैरवशक्तिसहित मुण्डाग्रधारिणीत्यादि अष्टमाष्टकोटियोगिनीवृन्द मयूकावृते ॥ ८ ॥
विजयभैरव महावीरशक्ते सर्वाकर्षण भैरवनाथे महाकालकालभैरव प्राणनाडि दक्षिणकालि भद्रकालि रुद्रभूकालि कालकालि गुह्यकालि कामकलाकालि धनकालि सिद्धिकालि चण्डिकालि नवकन्यादिरूपे श्रीमच्छ्रीप्रत्यङ्गिरे वटुकेश्वरि योगिन्यः क्षेत्रपालमयि गणेश सुधामयि द्वादशादित्यमयि एकादशरुद्रमयि सर्वत्रिखण्डामुद्राशक्ते शूलिनि कपालिनि डमरुकवति ब्राह्मिप्रत्यङ्गिरे महाकृत्याप्रत्यङ्गिरे अक्षमाला कुण्डिका पद्म पानपात्र बाण चाप खड्ग चर्म कुलिशदण्ड गदा शक्ति चक्र पाश त्रिशूलदण्ड परशु शङ्खादि सहस्रकोट्यायुधधारिणि शतसहस्रकोटिसिंहासने सहस्रवदने सिंहवक्त्रे ज्वालाजिह्वे करालदंष्ट्रे अजिते अपराजिते सर्वविघ्ननाशिनि सर्वसङ्कटनिवारिणि सर्वार्थसु मन्त्रसिद्धिप्रदे सर्वदुर्मन्त्रविध्वंसिनि परमन्त्रोच्चाटिनि परमानुग्रह क्षिप्रप्रसादिनि सर्वानन्दपरिपूर्ण शुद्धचैतन्य महामहाज्वलज्ज्वाला महाबिन्दुचक्रस्वामिनि महाचतुष्षष्टिकोटिभैरवशक्तिसहित महाचतुष्षष्टिकोटियोगिनीवृन्द मयूकावृते ॥ ९ ॥
सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वमन्त्रात्मिके सर्वनादात्मिके सर्वविद्यात्मिके सर्वसर्वात्मिके श्रीशारदे महामहामाये महामहाकालि महामहामारि महायोगेश्वरि महाकालरात्रि महामोहरात्रि महाकालचक्रमहासाम्राज्ञि महेश्वरमहाकल्पमहाताण्डवमहासाक्षिणि अखिलाण्डकोटिब्रह्माण्डनायिके महामहाप्रत्यङ्गिरे नमस्ते नमस्ते नमस्ते नमः ॥
स्वाहा फट् हुं क्षं लं श्रीं क्रीं क्ष्म्रौं क्लीं ह्रीं ऐं ओम् ॥
प्रार्थना –
ब्रह्मस्वरूपे ब्रह्मेशि ब्रह्मास्त्रखड्गधारिणि ।
ब्राह्मि प्रत्यङ्गिरे देवि अव ब्रह्म द्विषो जहि ॥ १ ॥
विष्णुरूपे वैष्णवि चक्रास्त्रखड्गधारिणि ।
नारायणि प्रत्यङ्गिरे मम शत्रून् विद्वेषय ॥ २ ॥
रुद्रस्वरूपे रुद्रेशि रुद्रास्त्रखड्गधारिणि ।
रौद्रि प्रत्यङ्गिरे देवि मम शत्रूनुच्चाटय ॥ ३ ॥
उग्रस्वरूपे उग्रेशि उग्रास्त्रखड्गधारिणि ।
उग्रकृत्या प्रत्यङ्गिरे उग्राभिचार्यान्नाशय ॥ ४ ॥
अथर्वेशि भद्रकालि अथर्वखड्गधारिणि ।
महाप्रत्यङ्गिरे देवि रक्ष मां शरणागतम् ॥ ५ ॥
महाकृत्ये गौरीश्वरि महास्त्रखड्गधारिणि ।
महाकृत्या प्रत्यङ्गिरे महाक्षुद्रान् विनाशय ॥ ६ ॥
नवनाथावृतात्मिकां षट्त्रिंशत्तत्त्वनायिकाम् ।
नित्या षोडशिकान् वन्दे घटिकावरणोपेतम् ॥ ७ ॥
तिथि वार नक्षत्रादि योग करण रूपिणीम् ।
कालचक्रात्मिकां ध्यायेत् कालस्योल्लासिनीं सदा ॥ ८ ॥
या देवि सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९ ॥
फलश्रुतिः –
स्मृतिमात्रा हि विद्यैष भोगमोक्षप्रदायिनि ।
सर्वकामरहस्यार्थाः स्मरणात् पापनाशिनि ॥ १ ॥
अपस्मार ज्वर व्याधि मृत्यु क्षामादिजे भये ।
आपत्काले गृहभये व्यसनेष्वाभिचारिके ॥ २ ॥
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ।
सर्वोपद्रवनिर्मुक्तो साक्षात् शिवमयो भवेत् ॥ ३ ॥
मालामन्त्रमिदं गुह्यं पूर्णानन्दप्रकीर्तितम् ।
एकवारजपध्यानात् सर्वपूजाफलं लभेत् ॥ ४ ॥
सर्वबाधाप्रशमनं धान्यगोत्रधनोच्चयः ।
प्रत्यङ्गिरा प्रसादेन भविष्यति न संशयः ॥ ५ ॥
ब्राह्मी नारायणी रौद्री उग्रकृत्या महाकृतिः ।
भद्रकाल्यः प्रसादेन सर्वत्र विजयी भवेत् ॥ ६ ॥
इति श्री प्रत्यङ्गिरा खड्गमाला स्तोत्रम् ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

