Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री विपरीत प्रत्यङ्गिरा मन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्री विपरीत प्रत्यङ्गिरा देवता ममाभीष्ट सिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादि न्यासः –
भैरव ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्री विपरीत प्रत्यङ्गिरा देवतायै नमः हृदि ।
ममाभीष्ट सिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं श्रीं मध्यमाभ्यां नमः ।
ओं प्रत्यङ्गिरे अनमिकाभ्यां नमः ।
ओं मां रक्ष रक्ष कनिष्ठिकाभ्यां नमः ।
ओं मम शत्रून् भञ्जय भञ्जय करतलकर पृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं ऐं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं श्रीं शिखायै वषट् ।
ओं प्रत्यङ्गिरे कवचाय हुम् ।
ओं मां रक्ष रक्ष नेत्रत्रयाय वौषट् ।
ओं मम शत्रून् भञ्जय भञ्जय अस्त्राय फट् ।
ध्यानम् –
खड्गं कपालं डमरुं त्रिशूलं
सम्बिभ्रती चन्द्रकलावतंसा ।
पिङ्गोर्ध्वकेशाऽसित भीमदंष्ट्रा
भूयाद्विभूत्यै मम भद्रकाली ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि ।
मालाप्रार्थन –
मां माले महामाये सर्वशक्तिस्वरूपिणी ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
ओं ह्रीं सिद्ध्यै नमः ॥
मनुः –
ओं ऐं ह्रीं श्रीं प्रत्यङ्गिरे मां रक्ष रक्ष मम शत्रून् भञ्जय भञ्जय स्फ्रें हूं फट् स्वाहा ॥
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.