Sri Pratyangira Kavacham 2 (Jaganmangalam) – श्री प्रत्यङ्गिरा कवचम् – २ (जगन्मङ्गलम्)


श्रीदेव्युवाच ।
देव देव महादेव सर्वज्ञ करुणानिधे ।
प्रत्यङ्गिरायाः कवचं सर्वरक्षाकरं नृणाम् ॥ १ ॥

जगन्मङ्गलकं नाम प्रसिद्धं भुवनत्रये ।
सर्वरक्षाकरं नृणां रहस्यमपि तद्वद ॥ २ ॥

श्रीशिव उवाच ।
शृणु कल्याणि वक्ष्यामि कवचं शत्रुनिग्रहम् ।
परप्रेषितकृत्यादि तन्त्रशल्यादिभक्षणम् ॥ ३ ॥

महाभिचारशमनं सर्वकार्यप्रदं नृणाम् ।
परसेनासमूहे च राज्ञामुद्दिश्य मण्डलात् ॥ ४ ॥

जपमात्रेण देवेशि सम्यगुच्चाटनं भवेत् ।
सर्वतन्त्रप्रशमनं कारागृहविमोचनम् ॥ ५ ॥

क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
पुत्रदं धनदं श्रीदं पुण्यदं पापनाशनम् ॥ ६ ॥

वश्यप्रदं महाराज्ञां विशेषाच्छत्रुनाशनम् ।
सर्वरक्षाकरं शून्यग्रहपीडाविनाशनम् ॥ ७ ॥

बिन्दुत्रिकोणं त्वथ पञ्चकोणं
दलाष्टकं षोडशपत्रयुक्तम् ।
महीपुरेणावृतमम्बुजाक्षी
लिखेन्मनोरञ्जनमग्रतोपि ॥ ८ ॥

महेपुरात्वूर्वमेव द्वात्रिंशत्पत्रमालिखेत् ।
अन्तरे भूपुरं लेख्यं कोणाग्रे क्षां समालिखेत् ॥ ९ ॥

भद्रकालीमनुं लेख्यं मन्त्रं प्रत्यङ्गिरात्मकम् ।
भद्रकाल्युक्तमार्गेण पूज्यां प्रत्यङ्गिरां शिवाम् ॥ १० ॥

रक्तपुष्पैः समभ्यर्च्य कवचं जपमाचरेत् ।
सकृत्पठनमात्रेण सर्वशत्रून् विनाशयेत् ॥ ११ ॥

शत्रवश्च पलायं ते तस्य दर्शनमात्रतः ।
मासमात्रं जपेद्देवि सर्वशत्रून् विनाशयेत् ॥ १२ ॥

अथ कवचम् –
यां कल्पयन्ती प्रदिशं रक्षेत्काली त्वथर्वणी ।
रक्षेत्करालात्वाग्नेय्यां सदा मां सिंहवाहिनी ॥ १३ ॥

याम्यां दिशं सदा रक्षेत्कक्षज्वालास्वरूपिणी ।
नैरृत्यां रक्षतु सदा मास्मानृच्छो अनागसः ॥ १४ ॥

वारुण्यां रक्षतु मम प्रजां च पुरुषार्थिनी ।
वायव्यं रक्षातु सदा यातुधान्यो ममाखिलाः ॥ १५ ॥

दंष्ट्राकरालवदना कौबेर्यां बडबनला ।
ईशान्यां मे सदा रक्षेद्वीरांश्चान्यान्निबर्हय ॥ १६ ॥

उग्रा रक्षेदधोभागे मायामन्त्रस्वरूपिणी ।
ऊर्ध्वं कपालिनी रक्षेत् क्षं ह्रीं हुं फट् स्वरूपिणी ॥ १७ ॥

अधो मे विदशं रक्षेत्कुरुकुल्ला कपालिनी ।
विप्रचित्ता सदा रक्षेत् दिवारात्रं विरोधिनी ॥ १८ ॥

कुरुकुल्ला तु मे पुत्रान् बन्धवानुग्ररूपिणी ।
प्रभादीप्त गृहा रक्षेत् मातापुत्रान् समातृकान् ॥ १९ ॥

स्वभृत्यान् मे सदा रक्षेत्पायात् सा मे पशून् सदा ।
अजिता मे सदा रक्षेदपराजित कामदा ॥ २० ॥

कृत्या रक्षेत्सदाप्राणान् त्रिनेत्रा कालरात्रिका ।
फालं पातु महाक्रूरा पिङ्गकेशी शिरोरुहान् ॥ २१ ॥

भ्रुवौ मे क्रूरवदना पायाच्चण्डी प्रचण्डिका ।
श्रोत्रयोर्युगलं पातु तदा मे शङ्खकुण्डला ॥ २२ ॥

प्रेतचित्यासना देवी पायान्नेत्रयुग्मं मम ।
मम नासापुटद्वन्द्वं ब्रह्मरोचिष्ण्वमित्रहा ॥ २३ ॥

कपोलं मे सदा पातु भृगवश्चाप सेधिरे ।
ऊर्ध्वोष्ठं तु सदा पातु रथस्येव विभुर्धिया ॥ २४ ॥

अधरोष्ठं सदा पातु आज्ञातस्ते वशो जनः ।
दन्तपङ्क्तिद्वयं पातु ब्रह्मरूपा करालिनी ॥ २५ ॥

वाचं वागीश्वरी रक्षेद्रसनां जननी मम ।
चुबुकं पातु मेन्द्राणी तनूं ऋच्छस्व हेलिका ॥ २६ ॥

कर्णस्थानं मम सदा रक्षतां कम्बुकन्धरा ।
कण्ठध्वनिं सदा पातु नादब्रह्ममयी मम ॥ २७ ॥

जठरं मेङ्गिरः पुत्री मे वक्षः पातु काञ्चनी ।
पातु मे भुजयोर्मूलं जातवेदस्वरूपिणी ॥ २८ ॥

दक्षिणं मे भुजं पातु सततं कालरात्रिका ।
वामं भुजं वामकेशी परायन्ती परावती ॥ २९ ॥

पातु मे कूर्परद्वन्द्वं मनस्तत्वाभिधा सती ।
वाचं वागीश्वरी रक्षेद्रसनां जननी मम ॥ ३० ॥

वज्रेश्वरी सदा पातु प्रकोष्ठयुगलं मम ।
मणिद्वयं सदा पातु धूम्रा शत्रुजिघांसया ॥ ३१ ॥

पायात्करतलद्वन्द्वं कदम्बवनवासिनी ।
वामपाण्यङ्गुली पातु हिनस्ति परशासनम् ॥ ३२ ॥

सव्यपाण्यङ्गुली पातु यदवैषि चतुष्पदी ।
मुद्रिणी पातु वक्षो मे कुक्षिं मे वारुणीप्रिया ॥

तलोदर्युदरं पातु यदि वैषि चतुष्पदी ।
नाभिं नित्या सदा पातु ज्वालाभैरवरूपिणी ॥ ३३ ॥

पञ्चास्यपीठनिलया पातु मे पार्श्वयोर्युगम् ।
पृष्ठं प्रज्ञेश्वरी पातु कटिं पृथुनितम्बिनी ॥ ३४ ॥

गुह्यमानन्दरूपाव्यादण्डं ब्रह्माण्डनायकी ।
पायान्मम गुदस्थानमिन्दुमौलिमनः शुभा ॥ ३५ ॥

बीजं मम सदा पातु दुर्गा दुर्गार्तिहारिणी ।
ऊरू मे पातु क्षान्तात्मा त्वं प्रत्यस्य स्वमृत्यवे ॥ ३६ ॥

वनदुर्गा सदा पातु जानुनी वनवासिनी ।
जङ्घिकाण्डद्वयं पातु यश्चजामीश पातु नः ॥ ३७ ॥

गुल्फयोर्युगलं पातु योऽस्मान्द्वेष्टि वधस्व तम् ।
पदद्वन्द्वं सदाव्यान्मे पदाविस्फार्य तच्छिरः ॥ ३८ ॥

अभिप्रेहि सहस्राक्षं पादयोर्युगलं मम ।
पायान्मम पदद्वन्द्वं दहन्नग्निरिव ह्रदम् ॥ ३९ ॥

सर्वाङ्गं सर्वदा पातु सर्वप्रकृतिरूपिणी ।
मन्त्रं प्रत्यङ्गिरा देवी कृत्याश्च सहृदो सुहृत् ॥ ४० ॥

पराभिचारकृत्यात्म समिद्धं जातवेदसम् ।
परप्रेषितशल्यात्मे तमितो नाशयामसि ॥ ४१ ॥

वृक्षादि प्रतिरूपात्मा शिवं दक्षिणतः कृधि ।
अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे ॥ ४२ ॥

भूतप्रेतपिशाचादि प्रेषितान् जहि मां प्रति ।
भूतप्रेतपिशाचादि परतन्त्रविनाशिनी ॥ ४३ ॥

पराभिचारशमनी धारणात्सर्वसिद्धिदाम् ।
भूर्जपत्रे स्वर्णपत्रे लिखित्वा धारयेद्यदि ॥ ४४ ॥

सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ।
एकावृत्तिं जपेद्देवि सर्वऋग्जपदा भवेत् ॥ ४५ ॥

भद्रकाली प्रसन्ना भूदभीष्टफलदा भवेत् ।
बन्दीगृहे सप्तरात्रं चोरद्रव्येऽष्टरात्रकम् ॥ ४६ ॥

महाज्वरे सप्तरात्रं उच्चाटे मासमात्रकम् ।
महाव्याधिनिवृत्तिः स्यान्मण्डलं जपमाचरेत् ॥ ४७ ॥

पुत्रकार्ये मासमात्रं महाशतृत्वमण्डलात् ।
युद्धकार्ये मण्डलं स्याद्धार्यं सर्वेषु कर्मसु ॥ ४८ ॥

अस्मिन्यज्ञे समावाह्य रक्तपुष्पैः समर्चयेत् ।
नत्वा न कुर्तु मर्हासि इषुरूपे गृहात्सदा ॥ ४९ ॥

शास्तालये चतुष्पथे स्वगृहे गेहलीस्थले ।
निखनेद्यं त्रिशल्यादि तदर्थं प्रापयाशुमे ॥ ५० ॥

मासोच्छिष्टश्च द्विपदमेतत्किञ्चिच्चतुष्पदम् ।
माज्ञातिरनुजानस्यान्मासावेशि प्रवेशिनः ॥ ५१ ॥

बले स्वप्नस्थले रक्षेद्यो मे पापं चिकीर्षति ।
आपादमस्तकं रक्षेत्तमेव प्रतिधावतु ॥ ५२ ॥

प्रतिसर प्रतिधाव कुमारीव पितुर्गृहम् ।
मूर्धानमेषां स्फोटय वधाम्येषां कुले जही ॥ ५३ ॥

ये ये मनसा वाचा यश्च पापं चिकीर्षति ।
तत्सर्वं रक्षतां देवी जहि शत्रून् सदा मम ॥ ५४ ॥

खट् फट् जहि महाकृत्ये विधूमाग्नि समप्रभे ।
देवि देवि महादेवि मम शत्रून्विनाशय ॥ ५५ ॥

त्रिकालं रक्ष मां देवि पठतां पापनाशनम् ।
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ॥ ५६ ॥

इदं तु कवचं ज्ञात्वा जपेत्प्रत्यङ्गिरा ऋचम् ।
शतलक्षं प्रजप्त्वापि तस्य विद्या न सिध्यति ॥ ५७ ॥

मन्त्रस्वरूपकवचमेककालं पठेद्यदि ।
भद्रकाली प्रसन्नात्मा सर्वभीष्टं ददाति हि ॥ ५८ ॥

महापन्नो महारोगी महाग्रन्थ्यादिपीडिने ।
कवचं प्रथमं जप्त्वा पश्चादृग्जपमाचरेत् ॥ ५९ ॥

पक्षमात्रात् सर्वरोगा नश्यन्त्येव हि निश्चयम् ।
महाधनप्रदं पुंसां महादुःस्वप्ननाशनम् ॥ ६० ॥

सर्वमङ्गलदं नित्यं वाञ्छितार्थफलप्रदम् ।
कृत्यादि प्रेषिते ग्रस्ते पुरस्ताज्जुहुयाद्यदि ॥ ६१ ॥

प्रेषितं प्राप्य झडिति विनाशं प्रददाति हि ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्य हूताशनम् ॥ ६२ ॥

त्रिकोणकुण्डे चावाह्य षोडशैरुपचारतः ।
यो मे करोति मन्त्रेण खट् फट् जहीति मन्त्रतः ॥ ६३ ॥

हुनेदयुतमात्रेण यन्त्रस्य पुरतो द्विजः ।
क्षणादावेशमाप्नोति भूतग्रस्तकलेबरे ॥ ६४ ॥

विभीतकमपामार्गं विषवृक्षसमुद्भवम् ।
गुलूचीं विकतं कान्तमङ्कोलं निम्बवृक्षकम् ॥ ६५ ॥

त्रिकटुं सर्षपं शिग्रुं लशुनं भ्रामकं फलम् ।
पञ्च ऋग्भिः सुसम्पाद्य आचार्यसहितः शुचिः ॥ ६६ ॥

दिनमेक सहस्रं तु हुनेद्ध्यान पुरः सरः ।
सर्वारिष्टः सर्वशान्तिः भविष्यति न संशयः ॥ ६७ ॥

शत्रुकृत्ये चैवमेव हुनेद्यदि समाहितः ।
स शत्रुर्मित्रपुत्रादियुक्तो यमपुरीं व्रजेत् ॥ ६८ ॥

ब्रह्माऽपि रक्षितुं नैव शक्तिः प्रतिनिवर्तने ।
महत्कार्यसमायोगे एवमेवं समाचरेत् ॥ ६९ ॥

तत्कार्यं सफलं प्राप्य वाञ्छितान् लभते सुधीः ।
इदं रहस्यं देवेशि मन्त्रयुक्तं तवानघे ॥ ७० ॥

शिष्याय भक्तियुक्ताय वक्तव्यं नान्यमेव हि ।
निकुम्भिलामिन्द्रजिता कृतं जय रिपुक्षये ॥ ७१ ॥

इति श्रीमहालक्ष्मीतन्त्रे प्रत्यक्षसिद्धिप्रदे उमामहेश्वर संवादे श्री शङ्करेण विरचिते श्री प्रत्यङ्गिरा कवचम् ॥


इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed