Sri Pashupathi Ashtakam – पशुपत्यष्टकम्


ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

पशुपतिं द्युपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम् ।
प्रणत भक्तजनार्तिहरं परं
भजत रे मनुजा गिरिजापतिम् ॥ १ ॥

न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

मखविनाशकरं शशिशेखरं
सततमध्वरभाजि फलप्रदम् ।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मदमपास्य चिरं हृदि संस्थितं
मरणजन्मजराभयपीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

हरिविरञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भूवनत्रितयाधिपं
भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा ।
पठति संशृणुते मनुजः सदा
शिवपुरीं वसते लभते मुदम् ॥ ९ ॥

इति श्रीपृथिवीपतिसूरिविरचितं श्रीपशुपत्यष्टकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed