Sri Nrusimha Saraswati Stotram 1 – श्री नृसिंहसरस्वती स्तोत्रम् १


कोट्यर्कभं कोटिसुचन्द्रशान्तं
विश्वाश्रयं देवगणार्चिताङ्घ्रिम् ।
भक्तप्रियं त्वात्रिसुतं वरेण्यं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ १ ॥

मायातमोऽर्कं विगुणं गुणाढ्यं
श्रीवल्लभं स्वीकृतभिक्षुवेषम् ।
सद्भक्तसेव्यं वरदं वरिष्ठं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ २ ॥

कामादिषण्मत्तगजाङ्कुशं त्वा-
-मानन्दकन्दं परतत्त्वरूपम् ।
सद्धर्मगुप्त्यै विधृतावतारं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ३ ॥

सूर्येन्दुगुं सज्जनकामधेनुं
मृषोद्यपञ्चात्मकविश्वमस्मात् ।
उदेति यस्मिन्रमतेऽस्तमेति
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ४ ॥

रक्ताब्जपत्रायतकान्तनेत्रं
सद्दण्डकुण्डीपरिहापिताघम् ।
श्रितस्मितज्योत्स्नमुखेन्दुशोभं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ५ ॥

नित्यं त्रयीमृग्यपदाब्जधूलिं
निनादसद्बिन्दुकलास्वरूपम् ।
त्रितापतप्ताश्रितकल्पवृक्षं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ६ ॥

दैन्यादिभीकष्टदवाग्निमीड्यं
योगाष्टकज्ञानसमर्पणोत्कम् ।
कृष्णानदीपञ्चसरिद्युतिस्थं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ७ ॥

अनादिमध्यान्तमनन्तशक्ति-
-मतर्क्यभावं परमात्मसञ्ज्ञम् ।
व्यतीतवाग्दृक्पथमद्वितीयं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ८ ॥

स्तोत्रे क्व ते मेऽस्त्युरुगाय शक्ति-
-श्चतुर्मुखो वै विमुखोऽत्र जातः ।
स्तुवन् द्विजिह्वोभवदीरयन् त्वां
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ९ ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्री नृसिंहसरस्वती स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed