Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः ।
हृदिकदाय पदाय सदा यदा तदुदयो न दयो न वियोनयः ॥ १ ॥
उदयते नयते यतेर्यदा मनसि कामनिकामगतिस्तदा ।
पदुदयो हृदयोकसि ते सिते भवति योऽवति योगिवरावरान् ॥ २ ॥
भवति भावभवोऽवभवो यदा भवति कामानिकामहतिस्तदा ।
भवति मानव मानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३ ॥
तव सतां वसतां मनसाऽनसा प्रपदयोः पदयोरजसाञ्जसा ।
सुसहितः सहितस्तव तावता यदवतारवता जनताविता ॥ ४ ॥
कृतफलं तु विहाय विहायसा सममजं भजतामज तामसात् ।
मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारिमहारिसत् ॥ ५ ॥
तदजरामरकोशविलक्षणं सदजधीगुणवेत्तृकलक्षणम् ।
भुवनहेत्वघहत्रिपुरादिकं तव न जातु पदं कुपुराधिकम् ॥ ६ ॥
विविध भेद परं सम दृश्यते त्रिविधवेदपरं कमदृश्य ते ।
पदमिदं सदु चिद्घनमुद्धिया सदनिदं प्रजहात्यघनुद्धिया ॥ ७ ॥
अज नमो जनमोहनमोहनः प्रिय नियोजय तेनयतेन ते ।
य इह वेद निवेश निवेदवेत्यजपदं जपदं तपदं पदम् ॥ ८ ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्री नृसिंहसरस्वती स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.