Sri Nrusimha Saptakam – श्री नृसिंह सप्तकम्


अद्वैतवास्तवमतेः प्रणमज्जनानां
सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं
देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ १ ॥

नतजनवचनऋतत्व-
-प्रकाशकालस्य दैर्घ्यमसहिष्णुः ।
आविर्बभूव तरसा
यः स्तम्भान्नौमि तं महाविष्णुम् ॥ २ ॥

वक्षोविदारणं य-
-श्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं
नरहरिवपुषं नमामि तं विष्णुम् ॥ ३ ॥

रिपुहृदयस्थितराजस-
-गुणमेवासृङ्मिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे
प्रह्लादपूर्वभाग्यनिचयमहम् ॥ ४ ॥

प्रह्लादं प्रणमज्जन-
-पङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं
चित्रं कुरुते नमामि यस्तमहम् ॥ ५ ॥

शरदिन्दुकुन्दधवलं
करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं
तरसैव ऋतं प्रकुर्वदहमीडे ॥ ६ ॥

मुखेन रौद्रो वपुषा च सौम्यः
सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवे-
-त्याख्याप्रसिद्धिर्यदसंशयाभूत् ॥ ७ ॥

इति शृङ्गेरि जगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री नृसिंह सप्तकम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed