Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा
सीमातीतात्मभूमा मम हयवदना देवता धावितारिः ।
याता श्वेताब्जमध्यं प्रविमलकमल स्रग्धरा दुग्धराशिः
स्मेरा सा राजराजप्रभृति नुतिपदं सम्पदं संविधत्ताम् ॥ १ ॥
तारा ताराधिनाथस्फटिकमणिसुधा हीरहाराभिरामा
रामा रत्नाब्धिकन्याकुचलिकुच परीरम्भसंरम्भधन्या ।
मान्याऽनन्यार्हदास्यप्रणततति परित्राणसत्रात्तदीक्षा
दक्षा साक्षात्कृतैषा सपदि हयमुखो देवता साऽवतान्नः ॥ २ ॥
अन्तर्ध्वान्तस्य कल्यं निगमहृदसुरध्वंसनैकान्तकल्यं
कल्याणानां गुणानां जलधिमभिनमद्बान्धवं सैन्धवास्यम् ।
शुभ्रांशु भ्राजमानं दधतमरिदरौ पुस्तकं हस्तकञ्जैः
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम्युदारं सदारम् ॥ ३ ॥
वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटी-
-वाटीनिर्यत्ननिर्यद्घृणिगणमसृणीभूत पादांशुजातम् ।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरु ब्रह्मतन्त्रस्वतन्त्रैः
पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिः शश्वदश्वोत्तमाङ्गम् ॥ ४ ॥
विद्या हृद्याऽनवद्या यदनघ करुणासारसारप्रसारात्
धीराधाराधरायामजनि जनिमतां तापनिर्वापयित्री ।
श्रीकृष्णब्रह्मतन्त्रादिमपदकलिजित् सम्यमीन्द्रार्चितं तत्
श्रीमद्धामातिभूम प्रथयतु कुशलं श्रीहयग्रीवनाम ॥ ५ ॥
इति श्री लक्ष्मी हयग्रीव पञ्चरत्नम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.