Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नीलोत्पलदलश्यामा षड्वक्त्रा षट्प्रकाशका ।
चिच्छक्तिरष्टादशाख्या बाहुद्वादशसम्युता ॥ १ ॥
सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ।
कुलकोटिसहस्राख्या कर्कोटो मेखलास्थितः ॥ २ ॥
तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ।
कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलः ॥ ३ ॥
भ्रुवोः पद्मो महापद्मो वामे नागः कपालकः ।
अक्षसूत्रं च खट्वाङ्गं शङ्खं पुस्तं च दक्षिणे ॥ ४ ॥
त्रिशूलं दर्पणं खड्गं रत्नमालाङ्कुशं धनुः ।
श्वेतमूर्धं मुखं देव्या ऊर्ध्वश्वेतं तथाम् ॥ ५ ॥
पूर्वास्यं पाण्डुरं क्रोधि दक्षिणं कृष्णवर्णकम् ।
हिमकुन्देन्दुभं सौम्यं ब्रह्मा पादतले स्थितः ॥ ६ ॥
विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ।
सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।
आघूर्णिता कुब्जिकैवं ध्येया पूजादिकर्मसु ॥ ७ ॥
इत्याग्नेये महापुराणे कुब्जिकापूजाकथनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्याये कुब्जिका वर्णन स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु । इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.