Sri Krishna Stotram (Bala Kritam) – श्री कृष्ण स्तोत्रम् (बालकृतम्)


बाला ऊचुः-
यथा संरक्षितं ब्रह्मन् सर्वापत्स्वेव नः कुलम् ।
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १ ॥

त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता ।
स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २ ॥

वह्निर्वा वरूणो वाऽपि चन्द्रो वा सूर्य एव च ।
यमः कुबेरः पवन ईशानाद्याश्च देवता ॥ ३ ॥

ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः ।
मानवाश्च तथा दैत्या यक्षराक्षसकिन्नराः ॥ ४ ॥

ये ये चराऽचराश्चैव सर्वे तव विभूतयः ।
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५ ॥

अभयं देहि गोविन्द वह्निसंहरणं कुरु ।
वयं त्वां शरणं यामो रक्ष त्वं शरणागतान् ॥ ६ ॥

इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ।
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७ ॥

दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः ।
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥ ८ ॥

इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् ।
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ ९ ॥

शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे ।
स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः ॥ १० ॥

शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ।
इह लोके हरेर्भक्तिमन्ते दास्यं लभेध्रुवम् ॥ ११ ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed