Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री केतुकवचस्तोत्रस्य त्र्यम्बक ऋषिः, अनुष्टुप् छन्दः, केतुर्देवता, कं बीजं, नमः शक्तिः, केतुरिति कीलकं, केतु प्रीत्यर्थे जपे विनियोगः ।
ध्यानम् –
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदाङ्गदं
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।
वैडूर्याभरणं चैव वैडूर्य मकुटं फणिं
चित्रं कफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥
अथ कवचम् –
चित्रवर्णः शिरः पातु फालं धूम्रसमद्युतिः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महोग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥ ५ ॥ [रविमर्दकः]
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ ६ ॥
इति श्रीब्रह्माण्डपुराणे श्री केतु कवचम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.