Sri Ketu Ashtottara Shatanama Stotram – श्री केतु अष्टोत्तरशतनाम स्तोत्रम्



शृणु नामानि जप्यानि केतो रथ महामते ।
केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १ ॥

नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः ।
महाभीतिकरश्चित्रवर्णो वै पिङ्गलाक्षकः ॥ २ ॥

स फलोधूम्रसङ्काशः तीक्ष्णदंष्ट्रो महोरगः ।
रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३ ॥

क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः ।
अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४ ॥

वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा ।
चित्रध्वजपताकश्च घोरश्चित्ररथः शिखी ॥ ५ ॥

कुलुत्थभक्षकश्चैव वैडूर्याभरणस्तथा ।
उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६ ॥

गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा ।
जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७ ॥

मुकुन्दवरपात्रं च महासुरकुलोद्भवः ।
घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८ ॥

उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः ।
नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९ ॥

चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः ।
अपसव्यप्रचारी च नवमे पापदायकः ॥ १० ॥

पञ्चमे शोकदश्चोपरागखेचर एव च ।
अतिपुरुषकर्मा च तुरीये (तु) सुखप्रदः ॥ ११ ॥

तृतीये वैरदः पापग्रहश्च स्फोटकारकः ।
प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२ ॥

द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः ।
कामरूपी सिंहदन्तः सत्येप्यनृतवानपि ॥ १३ ॥

चतुर्थे मातृनाशश्च नवमे पितृनाशकः ।
अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४ ॥

सर्पाक्षिजातोऽनङ्गश्च कर्मराश्युद्भवस्तथा ।
उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५ ॥

अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः ।
जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६ ॥

पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः ।
शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७ ॥

धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः ।
सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८ ॥

अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः ।
भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९ ॥

विचित्रफलदायी च भक्ताभीष्टफलप्रदः ।
एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २० ॥

यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् ।
स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१ ॥

इति श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed