Kakaradi Sri Kali Ashtottara Shatanamavali – ककारादि श्री काली अष्टोत्तरशतनामावली


ओं काल्यै नमः ।
ओं कपालिन्यै नमः ।
ओं कान्तायै नमः ।
ओं कामदायै नमः ।
ओं कामसुन्दर्यै नमः ।
ओं कालरात्र्यै नमः ।
ओं कालिकायै नमः ।
ओं कालभैरवपूजितायै नमः ।
ओं कुरुकुल्लायै नमः । ९

ओं कामिन्यै नमः ।
ओं कमनीयस्वभाविन्यै नमः ।
ओं कुलीनायै नमः ।
ओं कुलकर्त्र्यै नमः ।
ओं कुलवर्त्मप्रकाशिन्यै नमः ।
ओं कस्तूरीरसनीलायै नमः ।
ओं काम्यायै नमः ।
ओं कामस्वरूपिण्यै नमः ।
ओं ककारवर्णनिलयायै नमः । १८

ओं कामधेनवे नमः ।
ओं करालिकायै नमः ।
ओं कुलकान्तायै नमः ।
ओं करालास्यायै नमः ।
ओं कामार्तायै नमः ।
ओं कलावत्यै नमः ।
ओं कृशोदर्यै नमः ।
ओं कामाख्यायै नमः ।
ओं कौमार्यै नमः । २७

ओं कुलपालिन्यै नमः ।
ओं कुलजायै नमः ।
ओं कुलकन्यायै नमः ।
ओं कुलहायै नमः ।
ओं कुलपूजितायै नमः ।
ओं कामेश्वर्यै नमः ।
ओं कामकान्तायै नमः ।
ओं कुञ्जरेश्वरगामिन्यै नमः ।
ओं कामदात्र्यै नमः । ३६

ओं कामहर्त्र्यै नमः ।
ओं कृष्णायै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कुमुदायै नमः ।
ओं कृष्णदेहायै नमः ।
ओं कालिन्द्यै नमः ।
ओं कुलपूजितायै नमः ।
ओं काश्यप्यै नमः ।
ओं कृष्णमात्रे नमः । ४५

ओं कुलिशाङ्ग्यै नमः ।
ओं कलायै नमः ।
ओं क्रीं रूपायै नमः ।
ओं कुलगम्यायै नमः ।
ओं कमलायै नमः ।
ओं कृष्णपूजितायै नमः ।
ओं कृशाङ्ग्यै नमः ।
ओं किन्नर्यै नमः ।
ओं कर्त्र्यै नमः । ५४

ओं कलकण्ठ्यै नमः ।
ओं कार्तिक्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कौलिन्यै नमः ।
ओं कुमुदायै नमः ।
ओं कामजीविन्यै नमः ।
ओं कुलस्त्रियै नमः ।
ओं कीर्तिकायै नमः ।
ओं कृत्यायै नमः । ६३

ओं कीर्त्यै नमः ।
ओं कुलपालिकायै नमः ।
ओं कामदेवकलायै नमः ।
ओं कल्पलतायै नमः ।
ओं कामाङ्गवर्धिन्यै नमः ।
ओं कुन्तायै नमः ।
ओं कुमुदप्रीतायै नमः ।
ओं कदम्बकुसुमोत्सुकायै नमः ।
ओं कादम्बिन्यै नमः । ७२

ओं कमलिन्यै नमः ।
ओं कृष्णानन्दप्रदायिन्यै नमः ।
ओं कुमारीपूजनरतायै नमः ।
ओं कुमारीगणशोभितायै नमः ।
ओं कुमारीरञ्जनरतायै नमः ।
ओं कुमारीव्रतधारिण्यै नमः ।
ओं कङ्काल्यै नमः ।
ओं कमनीयायै नमः ।
ओं कामशास्त्रविशारदायै नमः । ८१

ओं कपालखट्वाङ्गधरायै नमः ।
ओं कालभैरवरूपिण्यै नमः ।
ओं कोटर्यै नमः ।
ओं कोटराक्ष्यै नमः ।
ओं काशीवासिन्यै नमः ।
ओं कैलासवासिन्यै नमः ।
ओं कात्यायन्यै नमः ।
ओं कार्यकर्यै नमः ।
ओं काव्यशास्त्रप्रमोदिन्यै नमः । ९०

ओं कामाकर्षणरूपायै नमः ।
ओं कामपीठनिवासिन्यै नमः ।
ओं कङ्किन्यै नमः ।
ओं काकिन्यै नमः ।
ओं क्रीडायै नमः ।
ओं कुत्सितायै नमः ।
ओं कलहप्रियायै नमः ।
ओं कुण्डगोलोद्भवप्राणायै नमः ।
ओं कौशिक्यै नमः । ९९

ओं कीर्तिवर्धिन्यै नमः ।
ओं कुम्भस्तन्यै नमः ।
ओं कटाक्षायै नमः ।
ओं काव्यायै नमः ।
ओं कोकनदप्रियायै नमः ।
ओं कान्तारवासिन्यै नमः ।
ओं कान्त्यै नमः ।
ओं कठिनायै नमः ।
ओं कृष्णवल्लभायै नमः । १०८

इति ककारादि श्री काली अष्टोत्तरशतनामावली ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed