Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शं शं शं सिद्धिनाथं प्रणमति चरणं वायुपुत्रं च रौद्रं
वं वं वं विश्वरुपं ह ह ह ह हसितं गर्जितं मेघक्षत्रम् ।
तं तं त्रैलोक्यनाथं तपति दिनकरं तं त्रिनेत्रस्वरूपं
कं कं कन्दर्पवश्यं कमलमनहरं शाकिनीकालरूम् ॥ १ ॥
रं रं रं रामदूतं रणगजदमितं रावणच्छेददक्षं
बं बं बं बालरूपं नतगिरिचरणं कम्पितं सूर्यबिम्बम् ।
मं मं मं मन्त्रसिद्धिं कपिकुलतिलकं मर्दनं शाकिनीनां
हुं हुं हुङ्कारबीजं हनति हनुमतं हन्यते शत्रुसैन्यम् ॥ २ ॥
दं दं दं दीर्घरूपं धरकरशिखरं पातितं मेघनादं
ऊं ऊं उच्चाटितं वै सकलभुवनतलं योगिनीवृन्दरूपम् ।
क्षं क्षं क्षं क्षिप्रवेगं क्रमति च जलधिं ज्वालितं रक्षदुर्गं
क्षें क्षें क्षें क्षेमतत्त्वं दनुरुहकुलं मुच्यते बिम्बकारम् ॥ ३ ॥
कं कं कं कालदुष्टं जलनिधितरणं राक्षसानां विनाशे
दक्षं श्रेष्ठं कवीनां त्रिभुवनचरतां प्राणिनां प्राणरूपम् ।
ह्वां ह्वां ह्वां ह्वांसतत्वं त्रिभुवनरचितं दैवतं सर्वभूते
देवानां च त्रयाणां फणिभुवनधरं व्यापकं वायुरूपम् ॥ ४ ॥
त्वं त्वं त्वं वेदतत्त्वं बहुरुचयजुषं सामचाथर्वरूपं
कं कं कं कन्दने त्वं ननु कमलतले राक्षसान् रौद्ररूपान् ।
खं खं खं खड्गहस्तं झटिति भुवितले त्रोटितं नागपाशं
ओं ओं ओङ्काररूपं त्रिभुवनपठितं वेदमन्त्राधिमन्त्रम् ॥ ५ ॥
सङ्ग्रामे शत्रुमध्ये जलनिधितरणे व्याघ्रसिंहे च सर्पे
राजद्वारे च मार्गे गिरिगुहविवरे चोषरे कन्दरे वा ।
भूतप्रेतादियुक्ते ग्रहगणविषये शाकिनीडाकिनीनां
देशे विस्फोटकानां ज्वरवमन शिरः पीडने नाशकस्त्वम् ॥ ६ ॥
इति श्री हनुमत् पञ्चरत्न स्तोत्रम् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.