Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्खलहारटङ्कम् ।
ददानमच्छाच्छसुवर्णवर्णं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥
पद्मरागमणिकुण्डलत्विषा
पाटलीकृतकपोलमस्तकम् ।
दिव्यहेमकदलीवनान्तरे
भावयामि पवमाननन्दनम् ॥ २ ॥
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ३ ॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ४ ॥
वामहस्ते महाकृच्छ्र दशास्यकरमर्दनम् ।
उद्यद्वीक्षणकोदण्डं हनूमन्तं विचिन्तयेत् ॥ ५ ॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥ ६ ॥
इति श्री हनुम स्तोत्रम् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.