Sri Guru Gita (Dvitiya Adhyaya) – श्री गुरुगीता द्वितीयोऽध्यायः


द्वितीयोऽध्यायः ॥

ध्यानम् श्रुणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ॥ १०९ ॥

श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि ।
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि ॥ ११० ॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १११ ॥

हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं
सच्चित्सुखाभीष्टवरं दधानम् ॥ ११२ ॥

श्वेताम्बरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिं
मन्दस्मितं पूर्णकृपानिधानम् ॥ ११३ ॥

आनन्दमानन्दकरं प्रसन्नं
ज्ञानस्वरूपं निजभावयुक्तम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं
श्रीमद्गुरुं नित्यमहं नमामि ॥ ११४ ॥

वन्दे गुरूणां चरणारविन्दं
सन्दर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गलिकायमाने
संसारहालाहलमोहशान्त्यै ॥ ११५ ॥

यस्मिन् सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकं ।
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ॥ ११६ ॥

पादाब्जे सर्वसंसारदावकालानलं स्वके ।
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ॥ ११७ ॥

अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ ११८ ॥

नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ ११९ ॥

सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः ।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ १२० ॥

सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ १२१ ॥

न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ १२२ ॥

इदमेव शिवं इदमेव शिवं
इदमेव शिवं इदमेव शिवम् ।
हरिशासनतो हरिशासनतो
हरिशासनतो हरिशासनतः ॥ १२३ ॥

विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् ।
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः ॥ १२४ ॥

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ॥ १२५ ॥

गुरूपदिष्टमार्गेण मनश्शुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ १२६ ॥

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ॥ १२७ ॥

किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि ।
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ॥ १२८ ॥

करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ॥ १२९ ॥

एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ॥ १३० ॥

यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ १३१ ॥

हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन ।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ॥ १३२ ॥

गुरुं त्वङ्कृत्य हुङ्कृत्य गुरुसान्निध्यभाषणः ।
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ॥ १३३ ॥

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा ।
कदाचिदपि नो कुर्यादद्वैतं गुरुसन्निधौ ॥ १३४ ॥

दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् ।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ॥ १३५ ॥

अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागी भवेद्यदा ।
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ॥ १३६ ॥

गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् ।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भावशोभितः ॥ १३७ ॥

गुरौ सति स्वयं देवि परेषां तु कदाचन ।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ॥ १३८ ॥

न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् ।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ॥ १३९ ॥

नोपाश्रयं च पर्यकं न च पादप्रसारणम् ।
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ॥ १४० ॥

गुरूणां सदसद्वाऽपि यदुक्तं तन्न लङ्घयेत् ।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ॥ १४१ ॥

अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् ।
दत्ते च रङ्कवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ॥ १४२ ॥

पादुकासनशय्यादि गुरुणा यदभीष्टितम् ।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ॥ १४३ ॥

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लङ्घयेत् ।
नोल्बणं धारयेद्वेषं नालङ्कारांस्ततोल्बणान् ॥ १४४ ॥

गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् ।
स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि ॥ १४५ ॥

नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् ।
कृत्स्नमुच्छिष्टमादाय हविरिव भक्षयेत्स्वयम् ॥ १४६ ॥

नाऽनृतं नाऽप्रियं चैव न गर्वं नाऽपि वा बहु ।
न नियोगपरं ब्रूयात् गुरोराज्ञां विभावयेत् ॥ १४७ ॥

प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर ।
इति सम्बोधनैर्भीतो गुरुभावेन सर्वदा ॥ १४८ ॥

मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरुः सन्त्राति पार्वति ॥ १४९ ॥

अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा ।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ॥ १५० ॥

मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदपुराणानां सारमेव न संशयः ॥ १५१ ॥

सत्कारमानपूजार्थं दण्डकाषयधारणः ।
स सन्न्यासी न वक्तव्यः सन्न्यासी ज्ञानतत्परः ॥ १५२ ॥

विजानन्ति महावाक्यं गुरोश्चरण सेवया ।
ते वै सन्न्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १५३ ॥

[** पाठभेदः –
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत्परम् ।
भासयन् ब्रह्मभावं च दीपो दीपान्तरं यथा ॥

**]

नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् ।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ॥ १५४ ॥

गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् ।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ १५५ ॥

आब्रह्मस्तम्बपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ॥ १५६ ॥

वन्देऽहं सच्चिदानन्दं भावातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ १५७ ॥

परात्परतरं ध्यायेन्नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ १५८ ॥

स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा ।
तथाऽऽत्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ १५९ ॥

अङ्गुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि ।
तत्र स्फुरति यो भावः शृणु तत्कथयामि ते ॥ १६० ॥

अजोऽहममरोऽहं च अनादिनिधनो ह्यहम् ।
अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ॥ १६१ ॥

अपूर्वमपरं नित्यं स्वयञ्ज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ १६२ ॥

अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निश्शब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ॥ १६३ ॥

यथा गन्धस्वभावत्वं कर्पूरकुसुमादिषु ।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ॥ १६४ ॥

यथा निजस्वभावेन कुण्डले कटकादयः ।
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ॥ १६५ ॥

स्वयं तथाविधो भूत्वा स्थातव्यं यत्र कुत्र चित् ।
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ॥ १६६ ॥

गुरुध्यानम् तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ॥ १६७ ॥

श्रीपार्वती उवाच ।
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किं एतदाख्याहि शङ्कर ॥ १६८ ॥

श्रीमहादेव उवाच ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ १६९ ॥

पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नाऽत्र संशयः ॥ १७० ॥

गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् ।
स्थितश्च यत्र कुत्राऽपि मुक्तोऽसौ नाऽत्र संशयः ॥ १७१ ॥

ज्ञानं वैराग्यमैश्वर्यं यशश्रीः स्वमुदाहृतम् ।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ॥ १७२ ॥

गुरुश्शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १७३ ॥

एकाकी निस्स्पृहः शान्तश्चिन्ताऽसूयादिवर्जितः ।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ॥ १७४ ॥

न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके ।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ॥ १७५ ॥

चार्वाकवैष्णवमते सुखं प्राभाकरे न हि ।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ॥ १७६ ॥

न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् ।
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ॥ १७७ ॥

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि ।
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ॥ १७८ ॥

यतः परमकैवल्यं गुरुमार्गेण वै भवेत् ।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकाङ्क्षिभिः ॥ १७९ ॥

एक एवाऽद्वितीयोऽहं गुरुवाक्येन निश्चितः ।
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ॥ १८० ॥

अभ्यासान्निमिषेणैव समाधिमधिगच्छति ।
आजन्मजनितं पापं तत्‍क्षणादेव नश्यति ॥ १८१ ॥

किमावाहनमव्यक्ते व्यापके किं विसर्जनम् ।
अमूर्ते च कथं पूजा कथं ध्यानम् निरामये ॥ १८२ ॥

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः ।
तामसो रुद्ररूपेण सृजत्यवति हन्ति च ॥ १८३ ॥

स्वयं ब्रह्ममयो भूत्वा तत्परं चावलोकयेत् ।
परात्परतरं नान्यत् सर्वगं तन्निरामयम् ॥ १८४ ॥

तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः ।
एकाकी निस्स्पृहः शान्तः स्थातव्यं तत्प्रसादतः ॥ १८५ ॥

लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा सन्तुष्टमानसः ॥ १८६ ॥

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि ।
सदाऽऽनन्दः सदा शान्तो रमते यत्र कुत्र चित् ॥ १८७ ॥

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः ।
मुक्तस्य लक्षणं देवि तवाऽग्रे कथितं मया ॥ १८८ ॥

उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिः तथाऽत्यन्ता कर्तव्या वै मनीषिभिः ॥ १८९ ॥

नित्ययुक्ताश्रयः सर्ववेदकृत्सर्ववेदकृत् ।
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ॥ १९० ॥

यद्यप्यधीता निगमाः षडङ्गा आगमाः प्रिये ।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ॥ १९१ ॥

शिवपूजारतो वाऽपि विष्णुपूजारतोऽथवा ।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ॥ १९२ ॥

शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि ।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ॥ १९३ ॥

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः ।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ॥ १९४ ॥

गुरुहीनः पशुः कीटः पतङ्गो वक्तुमर्हति ।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ॥ १९५ ॥

तस्मात्सर्वप्रयत्नेन सर्वसङ्गविवर्जितः ।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ॥ १९६ ॥

निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् ।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ॥ १९७ ॥

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादी विडम्बकः ।
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ॥ १९८ ॥

शिलायाः किं परं ज्ञानं शिलासङ्घप्रतारणे ।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ॥ १९९ ॥

न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः ।
वर्जयेत्तान् गुरून् दूरे धीरस्य तु समाश्रयेत् ॥ २०० ॥

पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः ।
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ॥ २०१ ॥

कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्कैश्च वादिनः ।
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ॥ २०२ ॥

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये ।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ॥ २०३ ॥

शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ॥ २०४ ॥

गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः ।
सकृत्कामगतो वाऽपि पञ्चधा गुरुरीरितः ॥ २०५ ॥

सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् ।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ॥ २०६ ॥

गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते ।
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ॥ २०७ ॥

नताऽस्मि ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिः ।
यच्चिन्त्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशान्तये ॥ २०८ ॥

अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये ।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ॥ २०९ ॥

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे ।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ॥ २१० ॥

इमां तु भक्तिभावेन पठेद्वै शृणुयादपि ।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ॥ २११ ॥

गुरुगीतामिमां देवि हृदि नित्यं विभावय ।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ॥ २१२ ॥

गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अन्ये च विविधाः मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१३ ॥

अनन्त फलमाप्नोति गुरुगीता जपेन तु ।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ॥ २१४ ॥

अकालमृत्युहरा चैव सर्वसङ्कटनाशिनी ।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥ २१५ ॥

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी ।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ॥ २१६ ॥

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् ।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ॥ २१७ ॥

कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ २१८ ॥

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये ।
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ॥ २१९ ॥

वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः ।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ २२० ॥

कृष्णाजिने ज्ञानसिद्धिः मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ॥ २२१ ॥

आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैरृत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ॥ २२२ ॥

उदङ्मुखः शान्तिजाप्ये वश्ये पूर्वमुखस्तथा ।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ॥ २२३ ॥

मोहनं सर्वभूतानां बन्धमोक्षकरं परम् ।
देवराजप्रियकरं राजानं वशमानयेत् ॥ २२४ ॥

मुखस्तम्भकरं चैव गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ॥ २२५ ॥

असिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ २२६ ॥

मोहशान्तिकरं चैव बन्धमोक्षकरं परम् ।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ॥ २२७ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् ।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ॥ २२८ ॥

सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ॥ २२९ ॥

आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनं ।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ॥ २३० ॥

अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ॥ २३१ ॥

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ २३२ ॥

काम्यानां कामधेनुर्वै कल्पते कल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ॥ २३३ ॥

लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् ।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ॥ २३४ ॥

जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः ।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ॥ २३५ ॥

इति श्रीस्कन्दपुराणे उत्तरखण्डे उमामहेश्वर संवादे श्री गुरुगीतायां द्वितीयोऽध्यायः ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: "శ్రీ సుబ్రహ్మణ్య స్తోత్రనిధి" ప్రచురించబోవుచున్నాము.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: