Sri Godavari Ashtakam – श्री गोदावरी अष्टकम्


वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा ।
स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १ ॥

सुरर्षिवन्द्या भुवनेनवद्या
याद्यात्र नद्याश्रितपापहन्त्री ।
देवेन या कृत्रिमगोवधोत्थ-
दोषापनुत्ये मुनये प्रदत्ता ॥ २ ॥

वार्युत्तमं ये प्रपिबन्ति मर्त्या-
यस्याः सकृत्तोऽपि भवन्त्यमर्त्याः ।
नन्दन्त ऊर्ध्वं च यदाप्लवेन
नरा दृढेनेव सवप्लवेन ॥ ३ ॥

दर्शनमात्रेण मुदा गतिदा गोदावरी वरीवर्त्रि ।
समवर्तिविहायद्रोधासी मुक्तिः सती नरीनर्ति ॥ ४ ॥

रम्ये वसतामसतामपि यत्तीरे हि सा गतिर्भवति ।
स्वच्छान्तरोर्ध्वरेतोयोगोमुनीनां हि सा गतिर्भवति ॥ ५ ॥

तीव्रतापप्रशमनी सा पुनातु महाधुनी ।
मुनीड्या धर्मजननी पावनी नोद्यताशिनी ॥ ६ ॥

सदा गोदार्तिहा गङ्गा जन्तुतापापहारिणी ।
मोदास्पदा महाभङ्गा पातु पापापहारिणी ॥ ७ ॥

गोदा मोदास्पदा मे भवतु
वरवता देवदेवर्षिवन्द्या ।
पारावाराग्र्यरामा जयति
यतियमीट्सेविता विश्ववित्ता ॥ ८ ॥

पापाद्या पात्यपापा
धृतिमतिगतिदा कोपतापाभ्यपघ्नी ।
वन्दे तां देवदेहां
मलकुलदलनीं पावनीं वन्द्यवन्द्याम् ॥ ९ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्रीगोदाष्टकम् ।


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed