Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीरङ्गनायक्यै नमः ।
ओं गोदायै नमः ।
ओं विष्णुचित्तात्मजायै नमः ।
ओं सत्यै नमः ।
ओं गोपीवेषधरायै नमः ।
ओं देव्यै नमः ।
ओं भूसुतायै नमः ।
ओं भोगशालिन्यै नमः ।
ओं तुलसीकाननोद्भूतायै नमः । ९
ओं श्रीधन्विपुरवासिन्यै नमः ।
ओं भट्टनाथप्रियकर्यै नमः ।
ओं श्रीकृष्णहितभोगिन्यै नमः ।
ओं आमुक्तमाल्यदायै नमः ।
ओं बालायै नमः ।
ओं रङ्गनाथप्रियायै नमः ।
ओं परायै नमः ।
ओं विश्वम्भरायै नमः ।
ओं कलालापायै नमः । १८
ओं यतिराजसहोदर्यै नमः ।
ओं कृष्णानुरक्तायै नमः ।
ओं सुभगायै नमः ।
ओं सुलभश्रियै नमः ।
ओं सुलक्षणायै नमः ।
ओं लक्ष्मीप्रियसख्यै नमः ।
ओं श्यामायै नमः ।
ओं दयाञ्चितदृगञ्चलायै नमः ।
ओं फल्गुन्याविर्भवायै नमः । २७
ओं रम्यायै नमः ।
ओं धनुर्मासकृतव्रतायै नमः ।
ओं चम्पकाशोकपुन्नाग मालती विलसत्कचायै नमः ।
ओं आकारत्रयसम्पन्नायै नमः ।
ओं नारायणपदाश्रितायै नमः ।
ओं श्रीमदष्टाक्षरी मन्त्रराजस्थित मनोरथायै नमः ।
ओं मोक्षप्रदाननिपुणायै नमः ।
ओं मनुरत्नाधिदेवतायै नमः ।
ओं ब्रह्मण्यायै नमः । ३६
ओं लोकजनन्यै नमः ।
ओं लीलामानुषरूपिण्यै नमः ।
ओं ब्रह्मज्ञानप्रदायै नमः ।
ओं मायायै नमः ।
ओं सच्चिदानन्दविग्रहायै नमः ।
ओं महापतिव्रतायै नमः ।
ओं विष्णुगुणकीर्तनलोलुपायै नमः ।
ओं प्रपन्नार्तिहरायै नमः ।
ओं नित्यायै नमः । ४५
ओं वेदसौधविहारिण्यै नमः ।
ओं श्रीरङ्गनाथ माणिक्यमञ्जर्यै नमः ।
ओं मञ्जुभाषिण्यै नमः ।
ओं पद्मप्रियायै नमः ।
ओं पद्महस्तायै नमः ।
ओं वेदान्तद्वयबोधिन्यै नमः ।
ओं सुप्रसन्नायै नमः ।
ओं भगवत्यै नमः ।
ओं श्रीजनार्दनदीपिकायै नमः । ५४
ओं सुगन्धावयवायै नमः ।
ओं चारुरङ्गमङ्गलदीपिकायै नमः ।
ओं ध्वजवज्राङ्कुशाब्जाङ्क मृदुपाद तलाञ्चितायै नमः ।
ओं तारकाकारनखरायै नमः ।
ओं प्रवालमृदुलाङ्गुल्यै नमः ।
ओं कूर्मोपमेय पादोर्ध्वभागायै नमः ।
ओं शोभनपार्ष्णिकायै नमः ।
ओं वेदार्थभावतत्त्वज्ञायै नमः ।
ओं लोकाराध्याङ्घ्रिपङ्कजायै नमः । ६३
ओं आनन्दबुद्बुदाकारसुगुल्फायै नमः ।
ओं परमाणुकायै नमः ।
ओं तेजःश्रियोज्ज्वलधृतपादाङ्गुलि सुभूषितायै नमः ।
ओं मीनकेतनतूणीर चारुजङ्घा विराजितायै नमः ।
ओं ककुद्वज्जानुयुग्माढ्यायै नमः ।
ओं स्वर्णरम्भाभसक्थिकायै नमः ।
ओं विशालजघनायै नमः ।
ओं पीनसुश्रोण्यै नमः ।
ओं मणिमेखलायै नमः । ७२
ओं आनन्दसागरावर्त गम्भीराम्भोज नाभिकायै नमः ।
ओं भास्वद्वलित्रिकायै नमः ।
ओं चारुजगत्पूर्णमहोदर्यै नमः ।
ओं नववल्लीरोमराज्यै नमः ।
ओं सुधाकुम्भायितस्तन्यै नमः ।
ओं कल्पमालानिभभुजायै नमः ।
ओं चन्द्रखण्डनखाञ्चितायै नमः ।
ओं सुप्रवाशाङ्गुलीन्यस्त महारत्नाङ्गुलीयकायै नमः ।
ओं नवारुणप्रवालाभ पाणिदेशसमञ्चितायै नमः । ८१
ओं कम्बुकण्ठ्यै नमः ।
ओं सुचुबुकायै नमः ।
ओं बिम्बोष्ठ्यै नमः ।
ओं कुन्ददन्तयुजे नमः ।
ओं कारुण्यरसनिष्यन्द नेत्रद्वयसुशोभितायै नमः ।
ओं मुक्ताशुचिस्मितायै नमः ।
ओं चारुचाम्पेयनिभनासिकायै नमः ।
ओं दर्पणाकारविपुलकपोल द्वितयाञ्चितायै नमः ।
ओं अनन्तार्कप्रकाशोद्यन्मणि ताटङ्कशोभितायै नमः । ९०
ओं कोटिसूर्याग्निसङ्काश नानाभूषणभूषितायै नमः ।
ओं सुगन्धवदनायै नमः ।
ओं सुभ्रुवे नमः ।
ओं अर्धचन्द्रललाटिकायै नमः ।
ओं पूर्णचन्द्राननायै नमः ।
ओं नीलकुटिलालकशोभितायै नमः ।
ओं सौन्दर्यसीमायै नमः ।
ओं विलसत्कस्तूरीतिलकोज्ज्वलायै नमः ।
ओं धगद्धगायमानोद्यन्मणि सीमन्तभूषणायै नमः । ९९
ओं जाज्वल्यमानसद्रत्न दिव्यचूडावतंसकायै नमः ।
ओं सूर्यार्धचन्द्रविलसत् भूषणञ्चित वेणिकायै नमः ।
ओं अत्यर्कानल तेजोधिमणि कञ्चुकधारिण्यै नमः ।
ओं सद्रत्नाञ्चितविद्योत विद्युत्कुञ्जाभ शाटिकायै नमः ।
ओं नानामणिगणाकीर्ण हेमाङ्गदसुभूषितायै नमः ।
ओं कुङ्कुमागरु कस्तूरी दिव्यचन्दनचर्चितायै नमः ।
ओं स्वोचितौज्ज्वल्य विविधविचित्रमणिहारिण्यै नमः ।
ओं असङ्ख्येय सुखस्पर्श सर्वातिशय भूषणायै नमः ।
ओं मल्लिकापारिजातादि दिव्यपुष्पस्रगञ्चितायै नमः । १०८
ओं श्रीरङ्गनिलयायै नमः ।
ओं पूज्यायै नमः ।
ओं दिव्यदेशसुशोभितायै नमः । १११
इति श्री गोदाष्टोत्तरशतनामावली ।
इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

