Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री गरुड कवच स्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टुप् छन्दः मम श्री वैनतेय प्रीत्यर्थे जपे विनियोगः ।
शिरो मे गरुडः पातु ललाटं विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १ ॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २ ॥
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३ ॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।
नाभिं पातु महातेजाः कटिं पातु सुधाहरः ॥ ४ ॥
ऊरू पातु महावीरः जानुनी चण्डविक्रमः ।
जङ्घे दण्डायुधः पातु गुल्फौ विष्णुरधः सदा ॥ ५ ॥
सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तथा ।
रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥ ६ ॥
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ।
यः पठेत् प्रातरुत्थाय विषदोषं प्रणश्यति ॥ ७ ॥
त्रिसन्ध्यं यः पठेन्नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८ ॥
एकवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९ ॥
इति श्रीनारदगरुडसंवादे श्री गरुड कवचम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

