Sri Garuda Kavacham – श्री गरुड कवचम्


अस्य श्री गरुड कवच स्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः मम गरुड प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

शिरो मे गरुडः पातु ललाटं विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १ ॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २ ॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३ ॥

स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । [*सर्वदा*]
नाभिं पातु महातेजाः कटिं पातु सुधाहरः ॥ ४ ॥

ऊरू पातु महावीरः जानुनी चण्डविक्रमः ।
जङ्घे दण्डायुधः पातु गुल्फौ विष्णुरथः सदा ॥ ५ ॥

सुवर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तथा ।
रोमकूपानि मे वीरः त्वचं पातु भयापहः ॥ ६ ॥

इत्येवं दिव्यकवचं पापघ्नं सर्वकामदं ।
यः पठेत्प्रातरुत्थाय विषदोषं प्रणश्यति ॥ ७ ॥

त्रिसन्ध्यं यः पठेन्नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८ ॥

एकवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९ ॥

इति श्री नारद गरुड संवादे गरुडकवचम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed