Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निःशङ्कं निजलीलया कवलयन्लोकानुरक्षादरा-
-दार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १ ॥
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २ ॥
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३ ॥
व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधयन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४ ॥
बालं शैवकुलोद्भवं परिहसत् स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५ ॥
सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-
-ऽश्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६ ॥
श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वातीतमपि त्वमेव गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७ ॥
गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयत् पावनीं
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८ ॥
इति श्रीमदप्पयदीक्षितविरचितं श्री गङ्गाधर स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.