Sri Ganesha Gakara Ashtottara Shatanamavali – श्री गणेश गकाराष्टोत्तरशतनामावली


ओं गणेश्वराय नमः ।
ओं गणाध्यक्षाय नमः ।
ओं गणत्रात्रे नमः ।
ओं गणञ्जयाय नमः ।
ओं गणनाथाय नमः ।
ओं गणक्रीडाय नमः ।
ओं गणकेलिपरायणाय नमः ।
ओं गणप्राज्ञाय नमः ।
ओं गणधाम्ने नमः । ९

ओं गणप्रवणमानसाय नमः ।
ओं गणसौख्यप्रदात्रे नमः ।
ओं गणभूतये नमः ।
ओं गणेष्टदाय नमः ।
ओं गणराजाय नमः ।
ओं गणश्रीदाय नमः ।
ओं गणगौरवदायकाय नमः ।
ओं गुणातीताय नमः ।
ओं गुणस्रष्ट्रे नमः । १८

ओं गुणत्रयविभागकृते नमः ।
ओं गुणप्रचारिणे नमः ।
ओं गुणवते नमः ।
ओं गुणहीनपराङ्मुखाय नमः ।
ओं गुणप्रविष्टाय नमः ।
ओं गुणपाय नमः ।
ओं गुणज्ञाय नमः ।
ओं गुणबन्धनाय नमः ।
ओं गजराजाय नमः । २७

ओं गजपतये नमः ।
ओं गजकर्णाय नमः ।
ओं गजाननाय नमः ।
ओं गजदन्ताय नमः ।
ओं गजाधीशाय नमः ।
ओं गजरूपाय नमः ।
ओं गजध्वनये नमः ।
ओं गजमुखाय नमः ।
ओं गजवन्द्याय नमः । ३६

ओं गजदन्तधराय नमः ।
ओं गजाय नमः ।
ओं गजराजे नमः ।
ओं गजयूथस्थाय नमः ।
ओं गर्जितत्रातविष्टपाय नमः ।
ओं गजदैत्यासुरहराय नमः ।
ओं गजगञ्जकभञ्जकाय नमः ।
ओं गानश्लाघिने नमः ।
ओं गानगम्याय नमः । ४५

ओं गानतत्त्वविवेचकाय नमः ।
ओं गानज्ञाय नमः ।
ओं गानचतुराय नमः ।
ओं गानज्ञानपरायणाय नमः ।
ओं गुरुप्रियाय नमः ।
ओं गुरुगुणाय नमः ।
ओं गुरुतत्त्वार्थदर्शनाय नमः ।
ओं गुरुवन्द्याय नमः ।
ओं गुरुभुजाय नमः । ५४

ओं गुरुमायाय नमः ।
ओं गुरुप्रभाय नमः ।
ओं गुरुविद्याय नमः ।
ओं गुरुप्राणाय नमः ।
ओं गुरुबाहुबलाश्रयाय नमः ।
ओं गुरुशुण्डाय नमः ।
ओं गुरुस्कन्धाय नमः ।
ओं गुरुजङ्घाय नमः ।
ओं गुरुप्रथाय नमः । ६३

ओं गुर्वङ्गुलये नमः ।
ओं गुरुबलाय नमः ।
ओं गुरुश्रिये नमः ।
ओं गुरुगर्वनुते नमः ।
ओं गुरूरसे नमः ।
ओं गुरुपीनांसाय नमः ।
ओं गुरुप्रणयलालसाय नमः ।
ओं गुरुधर्मसदाराध्याय नमः ।
ओं गुरुमान्यप्रदायकाय नमः । ७२

ओं गुरुधर्माग्रगण्याय नमः ।
ओं गुरुशास्त्रालयाय नमः ।
ओं गुरुमन्त्राय नमः ।
ओं गुरुश्रेष्ठाय नमः ।
ओं गुरुसंसारदुःखभिदे नमः ।
ओं गुरुपुत्रप्राणदात्रे नमः ।
ओं गुरुपाषण्डखण्डकाय नमः ।
ओं गुरुपुत्रार्तिशमनाय नमः ।
ओं गुरुपुत्रवरप्रदाय नमः । ८१

ओं गौरभानुपरित्रात्रे नमः ।
ओं गौरभानुवरप्रदाय नमः ।
ओं गौरीतेजस्समुत्पन्नाय नमः ।
ओं गौरीहृदयनन्दनाय नमः ।
ओं गौरीस्तनन्धयाय नमः ।
ओं गौरीमनोवाञ्छितसिद्धिकृते नमः ।
ओं गौतमीतीरसञ्चारिणे नमः ।
ओं गौतमाभयदायकाय नमः ।
ओं गोपालाय नमः । ९०

ओं गोधनाय नमः ।
ओं गोपाय नमः ।
ओं गोपगोपीसुखावहाय नमः ।
ओं गोष्ठप्रियाय नमः ।
ओं गोलोकाय नमः ।
ओं गोदोग्ध्रे नमः ।
ओं गोपयःप्रियाय नमः ।
ओं ग्रन्थसंशयसञ्छेदिने नमः ।
ओं ग्रन्थिभिदे नमः । ९९

ओं ग्रन्थविघ्नघ्ने नमः ।
ओं गयातीर्थफलाध्यक्षाय नमः ।
ओं गयासुरवरप्रदाय नमः ।
ओं गकारबीजनिलयाय नमः ।
ओं गकाराय नमः ।
ओं ग्रहवन्दिताय नमः ।
ओं गर्भदाय नमः ।
ओं गणकश्लाघ्याय नमः ।
ओं गुरुराज्यसुखप्रदाय नमः । १०८

॥ इति श्री गणेश गकाराष्टोत्तरशतनामावली ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed