Sri Dharma Sastha Panchakam – श्री धर्मशास्ता पञ्चकम्


पादारविन्दभक्तलोकपालनैकलोलुपं
सदारपार्श्वमात्मजादिमोदकं सुराधिपम् ।
उदारमादिनाथभूतनाथमद्भुतात्मवैभवं
सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥

कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं
सुपावनं सनातनादिसत्यधर्मपोषणम् ।
अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं
प्रभामनोहरं हरीशभाग्यसम्भवं भजे ॥ २ ॥

मृगासनं वरासनं शरासनं महौजसं
जगद्धितं समस्तभक्तचित्तरङ्गसंस्थितम् ।
नगाधिराजराजयोगपीठमध्यवर्तिनं
मृगाङ्कशेखरं हरीशभाग्यसम्भवं भजे ॥ ३ ॥

समस्तलोकचिन्तितप्रदं सदा सुखप्रदं
समुत्थितापदन्धकारकृन्तनं प्रभाकरम् ।
अमर्त्यनृत्तगीतवाद्यलालसं मदालसं
नमस्करोमि भूतनाथमादिधर्मपालकम् ॥ ४ ॥

चराचरान्तरस्थित प्रभामनोहर प्रभो
सुरासुरार्चिताङ्घ्रिपादपद्म भूतनायक ।
विराजमानवक्त्र भक्तमित्र वेत्रशोभित
हरीशभाग्यजात साधुपारिजात पाहि माम् ॥ ५ ॥

इति श्री धर्मशास्ता पञ्चकम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed