Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ १ ॥
अनसूयासुत श्रीशः जनपातकनाशन ।
दिगम्बर नमो नित्यं तुभ्यं मे वरदो भव ॥ २ ॥
भूतप्रेतपिशाचाद्याः यस्य स्मरण मात्रतः ।
दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् ॥ ३ ॥
यन्नामस्मरणाद्दैन्यं पापं तापं च नश्यति ।
भीतर्ग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् ॥ ४ ॥
दद्रुस्फोटक कुष्टादि महामारी विषूचिकाः ।
नश्यन्त्यन्येपि रोगाश्च दत्तात्रेयं नमामि तम् ॥ ५ ॥
सङ्गजा देशकालोत्थाः तापत्रय समुत्थिताः ।
शाम्यन्ति यत् स्मरणतो दत्तात्रेयं नमामि तम् ॥ ६ ॥
सर्पवृश्चिकदष्टाणां विषार्तानां शरीरिणाम् ।
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ॥ ७ ॥
त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ।
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ॥ ८ ॥
वैर्यादिकृतमन्त्रादि प्रयोगा यस्य कीर्तनात् ।
नश्यन्ति देहबाधाश्च दत्तात्रेयं नमामि तम् ॥ ९ ॥
यच्छिष्यस्मरणात् सद्यो गतनष्टादि लभ्यते ।
यश्चमे सर्वतस्त्राता दत्तात्रेयं नमामि तम् ॥ १० ॥
जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत् ॥ ११ ॥
देवनाथगुरो स्वामिन् देशिक स्वात्मनायक ।
त्राहि त्राहि कृपासिन्धो पूर्णपारायणं कुरु ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीवासुदेवानन्दसरस्वती विरचित श्री दत्तात्रेय शान्ति स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.