Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातः स्मरामि करुणावरुणालयं तं
श्रीदत्तमार्तवरदं वरदण्डहस्तम् ।
सन्तं निजार्तिशमनं दमनं विनीत
स्वान्तर्गताखिलमलं विमलं प्रशान्तम् ॥ १ ॥
प्रातर्भजामि भजदिष्टवरप्रदं तं
दत्तं प्रसादसदनं वरहीरदं तम् ।
कान्तं मुदाऽत्रितनयं भवमोक्षहेतुं
सेतुं वृषस्य परमं जगदादिहेतुम् ॥ २ ॥
प्रातर्नमामि प्रयतोऽनसूयाः
पुत्रं स्वमित्रं यमितोऽनसूयाः ।
भूयांस आप्तास्तमिहार्तबन्धुं
कारुण्यसिन्धुं प्रणमामि भक्त्या ॥ ३ ॥
लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् ।
श्रीदत्तात्रेय देवस्य तस्य संसारभीः कुतः ॥ ४ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय प्रातः स्मरण स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.