Sri Dattatreya Ashtottara Shatanamavali 2 – श्री दत्तात्रेय अष्टोत्तरशतनामावली २



ओं ओङ्कारतत्त्वरूपाय नमः ।
ओं दिव्यज्ञानात्मने नमः ।
ओं नभोऽतीतमहाधाम्ने नमः ।
ओं ऐन्द्र्यर्ध्या ओजसे नमः ।
ओं नष्टमत्सरगम्याय नमः ।
ओं अगम्याचारात्मवर्त्मने नमः ।
ओं मोचितामेध्यकृतये नमः ।
ओं ह्रीम्बीजश्राणितश्रितये नमः ।
ओं मोहादिविभ्रमान्ताय नमः । ९

ओं बहुकायधराय नमः ।
ओं भक्तदुर्वैभवच्छेत्रे नमः ।
ओं क्लीम्बीजवरजापिने नमः ।
ओं भवहेतुविनाशाय नमः ।
ओं राजच्छोणाधराय नमः ।
ओं गतिप्रकम्पिताण्डाय नमः ।
ओं चारुव्यायतबाहवे नमः ।
ओं गतगर्वप्रियाय नमः ।
ओं यमादियतचेतसे नमः । १८

ओं वशिताजातवश्याय नमः ।
ओं मुण्डिने नमः ।
ओं अनसूयवे नमः ।
ओं वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने नमः ।
ओं तपोधनप्रसन्नाय नमः ।
ओं इडापतिस्तुतकीर्तये नमः ।
ओं तेजोमण्यन्तरङ्गाय नमः ।
ओं अद्मरसद्मविहापिने नमः ।
ओं आन्तरस्थानसंस्थाय नमः । २७

ओं आयैश्वर्यश्रौतगीतये नमः ।
ओं वातादिभययुग्भावहेतवे नमः ।
ओं हेतुहेतवे नमः ।
ओं जगदात्मात्मभूताय नमः ।
ओं विद्विषत्षट्कघातिने नमः ।
ओं सुरवर्गोद्धृते नमः ।
ओं भूत्यै नमः ।
ओं असुरावासभेदिने नमः ।
ओं नेत्रे नमः । ३६

ओं नयनाक्ष्णे नमः ।
ओं चिच्चेतनाय नमः ।
ओं महात्मने नमः ।
ओं देवाधिदेवदेवाय नमः ।
ओं वसुधासुरपालिने नमः ।
ओं याजिनामग्रगण्याय नमः ।
ओं द्राम्बीजजपतुष्टाय नमः ।
ओं वासनावनदावाय नमः ।
ओं धूलियुग्देहमालिने नमः । ४५

ओं यतिसंन्यासिगतये नमः ।
ओं दत्तात्रेयेतिसंविदे नमः ।
ओं यजनास्यभुजे नमः ।
ओं अजाय नमः ।
ओं तारकावासगामिने नमः ।
ओं महाजवास्पृग्रूपाय नमः ।
ओं आत्ताकाराय नमः ।
ओं विरूपिणे नमः ।
ओं नराय नमः । ५४

ओं धीप्रदीपाय नमः ।
ओं यशस्वियशसे नमः ।
ओं हारिणे नमः ।
ओं उज्ज्वलाङ्गाय नमः ।
ओं अत्रेस्तनूजाय नमः ।
ओं शम्भवे नमः ।
ओं मोचितामरसङ्घाय नमः ।
ओं धीमतां धीकराय नमः ।
ओं बलिष्ठविप्रलभ्याय नमः । ६३

ओं यागहोमप्रियाय नमः ।
ओं भजन्महिमविख्यात्रे नमः ।
ओं अमरारिमहिमच्छिदे नमः ।
ओं लाभाय नमः ।
ओं मुण्डिपूज्याय नमः ।
ओं यमिने नमः ।
ओं हेममालिने नमः ।
ओं गतोपाधिव्याधये नमः ।
ओं हिरण्याहितकान्तये नमः । ७२

ओं यतीन्द्रचर्यां दधते नमः ।
ओं नरभावौषधाय नमः ।
ओं वरिष्ठयोगिपूज्याय नमः ।
ओं तन्तुसन्तन्वते नमः ।
ओं स्वात्मगाथासुतीर्थाय नमः ।
ओं सुश्रिये नमः ।
ओं षट्कराय नमः ।
ओं तेजोमयोत्तमाङ्गाय नमः ।
ओं नोदनानोद्यकर्मणे नमः । ८१

ओं हान्याप्तिमृतिविज्ञात्रे नमः ।
ओं ओङ्कारितसुभक्तये नमः ।
ओं रुक्षुङ्मनःखेदहृते नमः ।
ओं दर्शनाविषयात्मने नमः ।
ओं राङ्कवाततवस्त्राय नमः ।
ओं नरतत्त्वप्रकाशिने नमः ।
ओं द्रावितप्रणताघाय नमः ।
ओं आत्तस्वजिष्णुस्वराशये नमः ।
ओं राजत्त्र्यास्यैकरूपाय नमः । ९०

ओं मस्थाय नमः ।
ओं मसुबन्धवे नमः ।
ओं यतये नमः ।
ओं चोदनातीतप्रचारप्रभवे नमः ।
ओं मानरोषविहीनाय नमः ।
ओं शिष्यसंसिद्धिकारिणे नमः ।
ओं गन्त्रे नमः ।
ओं पादविहीनाय नमः ।
ओं चोदनाचोदितात्मने नमः । ९९

ओं यवीयसे नमः ।
ओं अलर्कदुःखवारिणे नमः ।
ओं अखण्डितात्मने नमः ।
ओं ह्रीम्बीजाय नमः ।
ओं अर्जुनेष्ठाय नमः ।
ओं दर्शनादर्शितात्मने नमः ।
ओं नतिसन्तुष्टचित्ताय नमः ।
ओं यतये नमः ।
ओं ब्रह्मचारिणे नमः । १०८

इति श्री दत्तात्रेय अष्टोत्तरशतनामावली ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed